________________
तृतीयः परिच्छेदः ।
भेदः । तते हि मर्यादातो बहिः पापोपदेशादिविरमणं अनर्थदण्डविरतिव्रते तु ततोऽभ्यन्तरेतद्विरमणं अथ के ते अनर्थ दण्डा यतो विरमणं स्यादित्याह
६३
पोपोपदेशहिंसादानापध्यानदुः श्रुतीः पञ्च ।
--
प्राहुः प्रमादचर्य्यामनर्थदण्डानदण्डधराः ॥ २९ ॥ दंडा इव दण्डा अशुभमनोवाक्कायाः परपीडाकरत्वात्, तान्न धरन्ती त्यदण्डधरा गणधरदेवादयस्ते प्राहुः | कान् ? अनर्थदण्डन् । कति ? पंच । कथमित्याह पापेत्यादि । पापोपदेशश्च हिंसादानं च अपध्यानं च दुःश्रुतिश्च एताश्चतस्रः प्रमादचर्या चेति पंचमी ॥ २९॥ तत्र पापोपदेशस्य तावत् स्वरूपं प्ररूपपन्नाह :तिर्य्यकक्लेश वणिज्याहिंसारम्भप्रलम्भनादीनाम् । कथाप्रसङ्गप्रसवः स्मर्त्तव्यः पाप उपदेशः ॥ ३० ॥ स्मर्तव्यो ज्ञातव्यः । कः ? पापोपदेशः पापः पापोपार्जनहेतुरुपदेश: कथंभूतः ? कथाप्रसंग ः कथानां तिर्यक्क्लेशादिवार्तानां प्रसंग: पुनः पुनः प्रवृत्तिः । किं विशिष्टः ? प्रसवः प्रसूत इति प्रभवः उत्पादकः । केषामित्याह ——– तिर्यगित्यादि तिर्यक्क्लेशश्च हस्तिदमनादिः, वाणिज्या च वणिजां कर्म क्रयविक्रयादि, हिंसा च प्राणिवधः, आरंभश्च कृष्यादिः,
१ अनर्थदण्डः पंचधाऽपध्यानपापो देशप्रमादाचरितहिंसाप्रदानाशुभश्रुतिमेदात् ॥ क्लेशतिर्यग्वणिज्यावधकारं भकादिषु पापसंयुतं वचनं पापोपदेशः ॥ तद्यथा - अस्मिन् देशे दासा दास्यः सुलभास्तानमुं देशं नीत्वा विक्रयकृते महानलाभो भवतीति क्लेशवणिज्या । गोमहिष्यादीनमुत्र गृहीत्वाऽन्यत्र देशे व्यवहारे कृते भूरिवित्तलाभ इति तिर्यग्वणिज्या । वागुरिक सैौ करिकशाकुनिकादिभ्यो मृगवराह- शकुन्तप्रभृतयोऽमुष्मिन् देशे सन्तीति वचनं वधकोपदेशः । आरंभकेभ्यः कृषीवलादिभ्यः क्षित्युदकज्वलनपवनवनस्पत्यारंभोऽनेनोपायेन कर्तव्य इत्याख्यानमारंभकोपदेशः । इत्येवं प्रकारं पापसंयुक्तं वचनं पापोपदेशः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org