SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारे "त्यागस्तु" पुनर्महाव्रतं भवति । केषां त्यागः “हिंसादीनां" "पंचानां" । कथंभूतानां “पापानां” पापोपार्जनहेतुभूतानां । कैस्तेषां त्यागः "मनोवचःकायैः । तैरपि कैः कृत्वा त्यागः "कृतकारितानुमोदैः । अयमर्थः-हिंसादीनां मनसा कृतकारितानुमोदैस्त्यागः । तथा वचसा कायेन चेति । केषां तैस्त्यागो महाव्रतं “महतां" प्रमत्तादिगुणस्थानवतिनां विशिष्टात्मनाम् ॥ २६ ॥ इदानीं दिग्विरतिव्रतस्यातिचारानाहःउर्ध्वाधस्तात्तिर्यग्व्यतिपाताः क्षेत्रवृद्धिरवधीनाम्। विस्मरणं दिग्विरतरत्याशाः पञ्चमन्यन्ते॥२७॥ "दिग्विरतरत्याशा" अतीचाराः "पंच मन्यन्तेऽभ्युपगम्यन्ते । तथा हि । अज्ञानात् प्रमादाद्वा ऊर्ध्वदिशोऽधस्तादिशस्तियग्दिशश्च व्यतीपाता विशेषेणतिक्रमणनि त्रयः । तथाऽज्ञानात् प्रमादाद्वा 'क्षेत्रवृद्धिः क्षेत्राधिक्यावधारणं । तथाऽवधीनां' दिग्विरतेः कृतमर्यादानां 'विस्मरण मिति ॥ २७॥ इदानीमनर्थदण्डद्वितीयं विरतिलक्षणं गुणव्रतं व्याख्यातुमाह; अभ्यन्तरं दिगवधेरपार्थिकेभ्यः सपापयोगेभ्यः। विरमणमनर्थदण्डव्रत विदुतधराग्रण्यः ॥२८॥ _ 'अनर्थदण्डव्रतं विदु'र्जानन्ति । के ते ? 'व्रतधरानण्यः' व्रतधराणां यतीनां मध्येऽप्रण्यः प्रधानभूतास्तीर्थकरदेवादयः । 'विरमणं' व्यावृत्तिः । केभ्यः ? 'सपापयोगेभ्यः' पापेन सह योगः सम्बन्धः पापयोगस्तेन सह वर्तमानेभ्यः पापोपदेशाद्यनर्थदण्डेभ्यः किं विशिष्टेभ्यः ? 'अपार्थिकेभ्यः' निष्प्रयोजनेभ्यः । कथं तेभ्यो विरमणं ? 'अभ्यन्तरं दिगवधेः' दिगवधेरभ्यन्तरं यथा भवत्येवं तेभ्यो विरमणं । अतएव दिग्विरातत्रतादस्य १ इदानी द्वीतीयमनर्थदण्डव्रतं इति ख. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy