________________
तृतीयः परिच्छेदः। अवधेर्बहिरणुपापप्रतिविरतेर्दिवतानि धारयताम् । । - पञ्चमहाव्रतपरिणतिमणुव्रतानि प्रपद्यन्ते ॥२४॥
अणुव्रतानि प्रपद्यन्ते । कां ? पंचमहाव्रतपरिणतिं । केषां । धारयतां । कानि ? दिग्वतानि । कुतस्तत्परिणतिं प्रपद्यन्ते ? अनुपापं प्रति विरते: सूक्ष्ममतिपापं प्रति विरतेः व्यावृत्तेः । क ? बहिः । कस्मात् ? अवधेः कृतमर्यादायाः ॥ २४ ॥ तथा तेषां तत्परिणतावपरमपि हेतुमाहः
प्रत्याख्यानतनुत्वान्मन्दतराश्चरणमोहपरिणामाः।
सत्त्वेन दुरवधारा महाव्रताय प्रकल्प्यन्ते ॥२५॥ 'चरणमोहपरिणामा' भावरूपाश्चारित्रमोहपरिणतयः। 'कल्प्यन्ते' उप.. चर्यन्ते । किमर्थं ? महाव्रतनिमित्तं । कथंभूताः सन्तः ? 'सत्वेन' 'दुरवधारा' अस्तित्वेन महता कष्टेनावधार्यमाणाः सन्तोऽपि तेऽस्तित्वेन लक्षयितुं न शक्यन्त इत्यर्थः । कुतस्ते दुरवधाराः ? 'मन्दतरा' अतिशयेनानुत्कटाः । मन्दतरत्वमप्येषां कुतः! 'प्रत्याख्यानतनुत्वात्' प्रत्याख्यानशब्देन प्रत्याख्यानावरणाः । द्रव्यकोधमानमायालोभा गृह्यन्ते नामैकदेशे हि प्रवृत्ताः शब्दा नाम्न्यपि वर्तन्ते भीमादिवत् । प्रत्याख्यान हिंसाविल्पेन हिंसादिविरतिलक्षणः संयमस्तदावृण्वन्ति ये ते प्रत्याख्वाना-- वरणा द्रव्यक्रोधादयः, यदुदये ह्मात्मा कात्तिद्विरतिं कर्तुं न शक्नोति अतो द्रव्यरूपादीनां क्रोधादीनां तनुत्वान्मन्दोदयत्वाद्भावरूपाणां मन्दतरत्वं सिद्धं
ननु कुतस्ते महाव्रताय कल्प्यन्ते ततः साक्षान्महाव्रतरूपा भवन्ती. 'त्याहः-.
पश्चनां पापानां हिंसादीनां मनोवचःकायैः। कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥ २६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org