SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचार ण्डव्रत" चानर्थदण्डविरतिं । तथा "भोगोपभोगपरिमाणं" सकृद्धज्यत इति भोगोऽशनयानगन्धमाल्यादिः पुनः पुनरुपभुज्यत इत्युपभोगो वस्त्राभरणयानपानादिस्तयोः परिमाणं कालनियमनं यावज्जीवनंवा । एतानि त्रीणि कस्माद्गुणव्रतान्युच्यन्ते “अनुबृंहणात" वृद्धिंनयनात् । केषां "गुणानाम् , अष्टमूलगुणानाम्" ॥२१॥ तत्र दिग्व्रतस्वरूपं प्ररूपयन्नाह;दिग्वलयं परिगणितं कृत्वातोऽहं बहिर्न यास्यमि । इति सङ्कल्पो दिखतमामृत्यणुपापविनिवृत्त्यै ।। २२॥ 'दिग्वतं' भवति । कोऽसौ ? 'संकल्पः' । कथंभूतः ? 'अहं बहिर्न यास्यामी'त्येवं रूपः । किं कृत्वा ? 'दिग्वलयं परिगणितं कृत्वा' समदिं कृत्वा । कथं ? 'आमृति' मरणपर्यन्तं यावत् । किमर्थं ? 'अणुपापविनिवृत्यै' सूक्ष्मस्यापि पापस्य विनिवृत्यर्थम् ॥ २२॥ तत्र दिग्वलयस्य परिगणितत्वे कानि मर्यादा इत्याहः मकराकरसरिदटवीगिरिजनपदयोजनानि मर्यादाः । प्राहुर्दिशां दशानां प्रतिसंहारे प्रसिद्धानि॥२३॥ प्राहुर्मयादाः । कानीत्याह-' मकराकरे'त्यादि मकराकरश्च समुद्रः, सरितश्च नद्यो गंगाद्याः, अटवी दंडकारण्यादिका, गिरिश्च पर्वतः सह्यविन्ध्यादिः, जनपदो देशो वराट वापीतटादिः, योजनानि विंशतित्रिंशतादिसंख्यानि । किं विशिष्टान्येतानि ? प्रसिद्धानि दिग्विरतिमर्यादानां दातुर्ग्रहीतुश्च प्रसिद्धानि । कासां मर्यादाः ? दिशां। कतिसंख्यावच्छिन्नानां दशानां । कस्मिन् कर्तव्ये सति मर्यादाः ! प्रतिसंहारे इतः परतो न यास्यामीति व्यावृतौ ॥ २३ ॥ एवं दिग्विरतिव्रतं धारयतां मर्यादातः परतः किं भवतीत्याहः१ स्त्रीजनोपसेवनादि ख. । २ जम्पत्यादीति लक्ष्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy