SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। धृत्वा शीतकाले तृणकुटीरकद्वारे अग्निं च पादान्ते कृत्वा रात्रौ संस्तरे पतितः संचिन्तयति अनेन घृतेन बहुतरमर्थमुमाय॑ सार्थवाहो भूत्वा सामन्तमहासामन्तराजाधिराजपदं प्राप्य क्रमेण सकलचक्रवर्ती भविध्यामि यदा तदा च मे सप्ततलप्रसादे शय्यागतस्य पादान्ते समुपविष्टं स्त्रीरत्नं पादौ मुष्टया ग्रहीष्यति न जानासि पादमर्दनं कर्तुमिति स्नेहेन भाणत्वा स्त्रीरत्नमेवं पादेन ताडयिष्यामि एवं चिन्तयित्वा तेन चक्रवर्तिरूपाविष्टन पादेन हत्वा पातितं तद्भुतभाजनं तेन च घृतेन द्वारसंधुक्षितोऽग्निः सुतरां प्रज्वालितः । ततो द्वारे ज्वलिते निसर्तुमशक्तो दग्धो मृतो दुर्गतिं गतः । इच्छाप्रमाणरहितपंचमव्रतस्य ॥ १८ ॥ यानि चेमानि पंचाणुव्रतान्युक्तानि मद्यादित्रयत्यागसमन्वितान्यष्टौ मूलगुणा भवन्तीत्याहः मद्यमांसमधुत्यागैः सहाणुव्रतपश्चकम् । अष्टौम्लगुणानाहुर्गृहिणां श्रमणोत्तमाः ॥२०॥ गृहिणामष्टौ मूलगुणानाहुः । के ते ? श्रवणोत्तमा जिनाः । किं तत् ? अणुव्रतपंचकं । कैः सह ? 'मद्यमांसमधुत्यागैः' मद्यं च मासं च मधु च तेषां त्यागास्तैः ॥ २० ॥ एवं पंचप्रकारमणुव्रतं प्रतिपाद्येदानी त्रिःप्रकारं गुणव्रतं प्रतिपादयनाहः .. दिग्वतमनर्थदण्डव्रतं च भोगोपभोगपरिमाणम् ।। - अनुवृंहणागुणानामाख्यान्ति गुणव्रतान्यायाः ॥२१ "आरव्यान्ति” प्रतिपादयन्ति । कानि ? "गुणव्रतानि" । के ते ? "आर्या:" गुणैर्गुणवद्भिर्वाआर्यन्ते प्राप्यन्त इत्यार्यास्तीर्थकरदेवादयः । किं तद्गणव्रत ? " दिग्वतं” दिग्विरति । न केवलमेतदेव किन्तु "अनर्थद १ धृत्वा. ग.। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy