SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारे अस्य कथा। आट्टीरदेशे नाशिकानगरे राजा कनकरथो राज्ञी कनकमाला, तलारो यमदण्डस्तस्य माता बहुसुन्दरी तरुणरण्डा पुंश्चली । सा एकदा वध्वा धर्तुं ' समर्पिताभरणं गृहीत्वा रात्रौ संकेतितजारपायें गच्छन्ता यमदण्डेन दृष्ट्वा सेविता चैकान्ते। तदाभरणं चानीय तेन निजभार्याया दत्तं । तया च दृष्ट्वा. भणितं-मदीयमिदमाभरणं, मया-श्वश्रूहस्ते धृतं । तद्वचनमाकर्ण्य तेन चिन्तितं या मया सविता सा मे जननी भविष्यति । ततस्तस्या जारसंकेतगृहं गत्वा तां सेवित्वा तस्यामासक्तो गूढवृत्या तया सह कुकर्मरतःस्थितः । एकदा तद्भार्यया असहनादिति रुष्टया रजक्या कथितं। मम भर्ता निजमात्रा सह तिष्ठति । रजक्या च मालकारिण्याः कथितं । अतिविश्वस्ता मालाकारिणी च कनकमाला राज्ञीनिमित्तं पुष्पाणि गृहीत्वा गता । तया च पृष्टा सा कुतूहलेन, जानासि हे कामप्यपूर्वी वार्ती । तया तलारद्विष्टतया कथितं रायः देवि ? यमदण्डतलारो निजजनन्या सह तिष्ठति । कनकमालया च राज्ञः कथितं । राज्ञा गूढपुरुषद्वारेण तस्य कुकर्म निश्चित्य तलारो गृहीतो दुर्गतिं गतः चतुर्थव्रतस्य । परिग्रहनिवृत्यभावात् श्मश्रुनवनीतेन बहुतरं दुःखं प्राप्तं । अस्य कथा । अस्त्ययोध्यायां श्रेष्ठी भवदत्तो भार्या धनदत्ता पुत्रो लुब्धदत्तः वाणिज्येन दूरं गतः । तत्र स्वमुपार्जितं तस्य चौरींत । ततोऽतिनिर्धनेन तेन मार्गे आगच्छता तत्रैकदा गोदुहः तक्रं पातुं याचितं । तक्रे पीते स्तोकं नवनीतं कूर्चेलग्नमालोक्य गृहीत्वा चिन्तितं तेन वाणिज्यं भविष्यत्यनेन मे, एवं च तत्संचितं तत् स्वस्य श्मश्रुनवनीत इति नाम जातं । एवमेकदा प्रस्थप्रमाणे घृते जाते घृतस्य भाजनं पादान्ते । १ अहीरदेशे ख, ग । २ गोकुले. ख. ग. घ। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy