SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। प्रभाते बध्वा सर्वेऽपि गच्छन्तु । तरुक्त हा हा तात ! पितामहस्त्वं किं तवैतत् संभाव्यते ? तेनोक्तं-" बुभुक्षितः किं न करोति पापं " इति । एवं प्रभाते तस्य पुनर्वचनात् तन्मुखं बद्ध्वा गताः । स च बद्धो गतेषु चरणाभ्यां मुखाद्बन्धनं दूरीकृत्वा तद्बालकान् भक्षयित्वा तेषामागमनसमये पुनः चरणाभ्यां बन्धनं मुखे संयोज्यातिकुर्कुटेन क्षीणोदरो भूत्वा स्थितः (३ ) । ततो नगरगतेन चतुर्थमतिकुर्कुटं दृष्टं मया यथा तत्र नगरे एकश्चौरस्तपस्विरूपं धृत्वा बृहच्छिलां च मस्तकस्योपरि हस्ताभ्यामूर्ध्व गृहीत्वा नगरमध्ये दिवा रात्रौ चातिकुर्कुटेनापसरपादं ददामीति भणन् भ्रमति । 'अपसरजीवेति' चासौ भक्तसर्वजनैर्भण्यते । स च गर्तादिविजनस्थाने दिगवलोकनं कृत्वा सुवर्णभूषितमेकाकिनं प्रणमन्तं तया शिलया मारयित्वा तद्रव्यं गृह्णाति ( ४ ) । इत्यतिकुर्कुटचतुष्टयमालोक्य मया श्लोकोऽयं कृतः अबालस्पर्शका नारी ब्राह्मणस्तृणहिंसकः । वने काष्ठमुखः पक्षी पुरेऽपसरजीवकः । इति इति कथायित्वा तलारं धीरथित्वा सन्ध्यायां ब्राह्मणः शिक्यतपस्विसमीपं गत्वा तपस्विप्रतिचारकैर्निर्धाय्यमाणोऽपि रात्र्यन्धो भूत्वा तत्र पतित्वैकदेशे स्थितः । ते च प्रतिचारकाः रात्र्यन्वपरीक्षणार्थं तृणकंडुकांगुल्यादिकं तस्याक्षिसमीपं नयन्ति । स च पश्यन्नपि न पश्यति । बृहद्रात्रौ गुहायामन्धकूपे नगरद्रव्यं ध्रियमाणमालोक्य तेषां खानपानादिकंवालोक्य प्रभाते राज्ञा मार्यमाणस्तलारोरक्षितः तेन रात्रिदृष्टमावेद्य संशिक्यतपस्वी चौरस्तेन तलारेण बहुकदर्थनादिभिः कदीमानो मृत्वा दुर्गतिं गतस्तृती'यव्रतस्य ।.. आरक्षिणाऽब्रह्मनिवृत्त्यभावादुःखं प्राप्तम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy