Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 403
________________ तृतीयः परिच्छेदः । भेदः । तते हि मर्यादातो बहिः पापोपदेशादिविरमणं अनर्थदण्डविरतिव्रते तु ततोऽभ्यन्तरेतद्विरमणं अथ के ते अनर्थ दण्डा यतो विरमणं स्यादित्याह ६३ पोपोपदेशहिंसादानापध्यानदुः श्रुतीः पञ्च । -- प्राहुः प्रमादचर्य्यामनर्थदण्डानदण्डधराः ॥ २९ ॥ दंडा इव दण्डा अशुभमनोवाक्कायाः परपीडाकरत्वात्, तान्न धरन्ती त्यदण्डधरा गणधरदेवादयस्ते प्राहुः | कान् ? अनर्थदण्डन् । कति ? पंच । कथमित्याह पापेत्यादि । पापोपदेशश्च हिंसादानं च अपध्यानं च दुःश्रुतिश्च एताश्चतस्रः प्रमादचर्या चेति पंचमी ॥ २९॥ तत्र पापोपदेशस्य तावत् स्वरूपं प्ररूपपन्नाह :तिर्य्यकक्लेश वणिज्याहिंसारम्भप्रलम्भनादीनाम् । कथाप्रसङ्गप्रसवः स्मर्त्तव्यः पाप उपदेशः ॥ ३० ॥ स्मर्तव्यो ज्ञातव्यः । कः ? पापोपदेशः पापः पापोपार्जनहेतुरुपदेश: कथंभूतः ? कथाप्रसंग ः कथानां तिर्यक्क्लेशादिवार्तानां प्रसंग: पुनः पुनः प्रवृत्तिः । किं विशिष्टः ? प्रसवः प्रसूत इति प्रभवः उत्पादकः । केषामित्याह ——– तिर्यगित्यादि तिर्यक्क्लेशश्च हस्तिदमनादिः, वाणिज्या च वणिजां कर्म क्रयविक्रयादि, हिंसा च प्राणिवधः, आरंभश्च कृष्यादिः, १ अनर्थदण्डः पंचधाऽपध्यानपापो देशप्रमादाचरितहिंसाप्रदानाशुभश्रुतिमेदात् ॥ क्लेशतिर्यग्वणिज्यावधकारं भकादिषु पापसंयुतं वचनं पापोपदेशः ॥ तद्यथा - अस्मिन् देशे दासा दास्यः सुलभास्तानमुं देशं नीत्वा विक्रयकृते महानलाभो भवतीति क्लेशवणिज्या । गोमहिष्यादीनमुत्र गृहीत्वाऽन्यत्र देशे व्यवहारे कृते भूरिवित्तलाभ इति तिर्यग्वणिज्या । वागुरिक सैौ करिकशाकुनिकादिभ्यो मृगवराह- शकुन्तप्रभृतयोऽमुष्मिन् देशे सन्तीति वचनं वधकोपदेशः । आरंभकेभ्यः कृषीवलादिभ्यः क्षित्युदकज्वलनपवनवनस्पत्यारंभोऽनेनोपायेन कर्तव्य इत्याख्यानमारंभकोपदेशः । इत्येवं प्रकारं पापसंयुक्तं वचनं पापोपदेशः । For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456