Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
तृतीया परिच्छेदः।
६७ 'पंचेन्द्रियाणामय' पंचेन्द्रिणां विषयः। 'भुक्त्वा' परिहातव्य,स्ताज्यः स भोगोऽशनपुष्पगंधविलेपनप्रभृतिः । यः पूर्व भुक्त्वा पुनश्च भोक्तव्यः स उपभोगो वसनाभरणप्रभृति वसनं वस्त्रम् ॥ ३७॥ मद्यादिभोगरूपोऽपि त्रसजन्तुवधहेतुत्वादणुव्रतधारिभिस्त्याज्य इत्याहः
सहतिपरिहरणार्थ क्षौद्रं पिशितं प्रमादपरिहतये । मद्यं च बर्जनीयं जिनचरणौ शरणमुपयातैः ॥ ३८ वर्जनीयं । किं तत् ? 'क्षौद्रं' मधु । तथा 'पिशितं' । किमर्थं ! 'त्रसहतिपरिहरणार्थ त्रसानां द्वीन्द्रियादीनां हतिर्वध'स्तत्परिहरणार्थे । तथा 'मद्यं च' वर्जनीयं । किमर्थं ? 'प्रमादपरिहृतये' माता भार्येति विवेकाभावः प्रमादस्य परिहृतये परिहारार्थे । कैरेतद्वर्जनीयं ! शरणमुपयातैः शरणमुपगतैः । को ? जिनचरणौ श्रावकैस्तत्याज्यमित्यर्थः ॥ ३८ ॥ तथैतदपि तैस्त्याज्यमित्याह,
अल्पफलबहुविधातान्मूलकमाणि श्रङ्गवेराणि ।
नवनीतनिम्बकुसुमं कैतकमित्येवमवहेयम् ॥ ३९ ॥ 'अवहेयं' त्याज्यं । किं तत् ? 'मूलकं' । तथा 'शृंगवेराणि' आईकाणि । किं विशिष्टानि ? 'आर्द्राणि' अपक्कानि । तथा नवनीतनिम्बकुसुममित्युपलक्षणं सकलकुसुमविशेषाणां तेषां कैतकं केतक्या इदं कैतकं
गुधरा इत्येवं, इत्यादि सर्वमवहेयं कस्मात् ' अल्पफलबहुविघातात् ' • अल्पं फलं यस्यासावल्फलः बहूनां त्रसजीवानां विघातो विनाशो बहुविघातः अल्पफलश्चासौ विघातश्च तस्मात् ॥ ३९ ॥
- प्रासुकमपि यदेवंविधं तत्त्याज्यमित्याह;.. १ केतक्यर्जुनपुष्पादीनि बहुजन्तुयोनिस्थानानि शृङ्गवेरमूलकहरिद्रानिम्वकुसु
मादीन्यनन्तकायव्यपदेशााणि एतेषामुपसेवने बहुघातोऽल्पफलमिति तत्परिहारः श्रेयान् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456