Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
तृतीयः परिच्छेदः।
६९
... अद्य दिवा रजनी वा पक्षो मासस्तथ रयनं वा। . इति कालपरिच्छित्त्या प्रत्याख्यानं भवेनियमः॥४३॥ - युगलं । नियमो भवेत् । किंतत् ? प्रत्याख्यानं । कया ? कालपरिच्छित्या । तामेव कालपरिच्छितिं दर्शयन्नाह–अद्येत्यादि अद्येति प्रवर्तमानघटिकाप्रहरादिलक्षणकालपरिच्छित्या प्रत्याख्यानं । तथा दिवेति । रजनि रात्रिरिति वा । पक्ष इति वा । मास इति वा । ऋतुरिति वा मासद्वयं । अयनमिति वा षण्मासा । इत्येवं कालपरिच्छित्या प्रत्याख्यानं । केष्वित्याह-भोजनेत्यादि भोजनं च, वाहनं च घोटकादि, शयनं च पल्यङ्कादि, स्नानं च, पवित्राङ्गरागश्च पवित्रश्चासावङ्गरागश्च कुंकुमादिविलेपनं । उपलक्षणमेतदञ्जनतिलकादीनां पवित्रविशेषणादोषापनयनार्थमौषधाद्यङ्गरागो निरस्तः । कुसुमानि च तेषु विषयभूतेषु । तथा ताम्बूलं च वसनं च वस्त्रं भूषणं च कटकादि मन्मथश्च कामसेवा संगीतं च गीतनृत्यवादित्रत्रयं गीतं च केवलं नृत्यवाद्यरहितं तेषु च विषयेषु अद्येत्यादिरूपं कालपरिच्छित्या यत्प्रत्याख्यानं स नियम इति व्याख्यातम् ॥ ४२-४३ ॥ भोगोपभोगपरिमाणस्येदानीमतीचारानाहःविषयविषतोऽनुपेक्षानुस्मृतिरतिलौल्यमति
तृषाऽनुभवो । भोगोपभोगपरिमा व्यतिक्रमा पञ्च कथ्यन्ते ॥४४॥ - भोगोपभोगपरिमाणं तस्य व्यतिक्रमा अतीचारा पंच कथ्यन्ते । के ते इत्याह विषयेत्यादि विषय एव विषं प्राणिनां दाहसंतापादिविधायित्वात् तेषु ततोऽनुपेक्षा उपेक्षायास्त्यागस्याभावोऽनुपेक्षा आदर इत्यर्थः । विषयवेदना प्रतिकारार्थो हि विषयानुभवस्तस्मात्तत्प्रतीकारे जातेऽपि पुनर्यत्संभाषणालिंगनाद्यादर सोऽत्यासक्तिजनकत्वादतीचारः। अनुस्मृ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456