Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 402
________________ रत्नकरण्डकश्रावकाचारे "त्यागस्तु" पुनर्महाव्रतं भवति । केषां त्यागः “हिंसादीनां" "पंचानां" । कथंभूतानां “पापानां” पापोपार्जनहेतुभूतानां । कैस्तेषां त्यागः "मनोवचःकायैः । तैरपि कैः कृत्वा त्यागः "कृतकारितानुमोदैः । अयमर्थः-हिंसादीनां मनसा कृतकारितानुमोदैस्त्यागः । तथा वचसा कायेन चेति । केषां तैस्त्यागो महाव्रतं “महतां" प्रमत्तादिगुणस्थानवतिनां विशिष्टात्मनाम् ॥ २६ ॥ इदानीं दिग्विरतिव्रतस्यातिचारानाहःउर्ध्वाधस्तात्तिर्यग्व्यतिपाताः क्षेत्रवृद्धिरवधीनाम्। विस्मरणं दिग्विरतरत्याशाः पञ्चमन्यन्ते॥२७॥ "दिग्विरतरत्याशा" अतीचाराः "पंच मन्यन्तेऽभ्युपगम्यन्ते । तथा हि । अज्ञानात् प्रमादाद्वा ऊर्ध्वदिशोऽधस्तादिशस्तियग्दिशश्च व्यतीपाता विशेषेणतिक्रमणनि त्रयः । तथाऽज्ञानात् प्रमादाद्वा 'क्षेत्रवृद्धिः क्षेत्राधिक्यावधारणं । तथाऽवधीनां' दिग्विरतेः कृतमर्यादानां 'विस्मरण मिति ॥ २७॥ इदानीमनर्थदण्डद्वितीयं विरतिलक्षणं गुणव्रतं व्याख्यातुमाह; अभ्यन्तरं दिगवधेरपार्थिकेभ्यः सपापयोगेभ्यः। विरमणमनर्थदण्डव्रत विदुतधराग्रण्यः ॥२८॥ _ 'अनर्थदण्डव्रतं विदु'र्जानन्ति । के ते ? 'व्रतधरानण्यः' व्रतधराणां यतीनां मध्येऽप्रण्यः प्रधानभूतास्तीर्थकरदेवादयः । 'विरमणं' व्यावृत्तिः । केभ्यः ? 'सपापयोगेभ्यः' पापेन सह योगः सम्बन्धः पापयोगस्तेन सह वर्तमानेभ्यः पापोपदेशाद्यनर्थदण्डेभ्यः किं विशिष्टेभ्यः ? 'अपार्थिकेभ्यः' निष्प्रयोजनेभ्यः । कथं तेभ्यो विरमणं ? 'अभ्यन्तरं दिगवधेः' दिगवधेरभ्यन्तरं यथा भवत्येवं तेभ्यो विरमणं । अतएव दिग्विरातत्रतादस्य १ इदानी द्वीतीयमनर्थदण्डव्रतं इति ख. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456