Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 396
________________ . रत्नकरण्डकश्रावकाचार सप्तरात्रमध्ये चौरं निजशिरो वाऽऽनय । ततश्चौरमलभमानश्चिन्तापरः तलारोऽपराह्ने बुभुक्षितब्राह्मणेन चैकदागत्य भोजनं प्रार्थितः । तेनोक्तंहे ब्राह्मण ! छन्दसोऽसि मम प्राणसन्देहो वर्तते त्वं च भोजनं प्रार्थयसें एतद्वचनमाकर्ण्य पृष्टं ब्राह्मणेन कुतस्ते प्राणसन्देहः ? । कथितं च तेन । तदाकर्ण्य पुनः पृष्टं ब्राह्मणेन-अत्र किं कोऽप्यतिनिस्पृहपुरुषोऽ प्यस्ति ? उक्तं तलारेण-अस्ति विशिष्टतपस्वी, न च तस्यैतत् सम्भाव्यते । भणितं ब्राह्मणेन स एव चौरो भविष्यति अतिनिस्पृहत्वात् । श्रूयतामत्र मदीयां कथां-मम ब्राह्मणी महासती परपुरुषशरीरं न स्पृशतीति निजपुत्रस्याप्यतिकुक्कुटात् कर्पटेन सर्व शरीरं प्रच्छाद्य स्तनं दादाति। रात्रौ तु गृहपिण्डारेण सह कुकम करोति । तद्दशनात् संजातवैरोग्याऽहं संवलार्थ सुवर्णशलाकां वंशयष्टिमध्ये निक्षिप्य तीर्थयात्रायां निर्गतः । अप्रे गच्छतश्च मभैकबटुको मिलितो न तस्य विश्वासं गच्छाम्यहं यष्टिरक्षां यत्नतः करोमि । तेनाऽऽकलितां यष्टिं. संगे बिभर्मि । एकदा रात्रौ कुंभकारगृहे निद्रां कृत्वा दूराद्गत्वा तेन निजमस्तके लग्नं कुथिततृणमालोक्यातिकुक्कुटे ममानतो, हा हा मया नोक्तं परतणमदत्तं प्रसितमित्युक्त्वा व्याघुटय तृणं तत्रैव कुंभकारगृहे निक्षिप्य दिवसावसाने कृतभोजनस्य ममागत्य मिलितः । भिक्षार्थ गच्छतस्तस्यातिशुचिरयमिति मत्वा विश्वसितेन मया यष्टिः कुक्कुरादिवारणार्थ समर्पिता । तां गृहीत्वा स गतः ( २ )। ततो मया महाटव्यां गच्छतातिवृद्धपक्षिणोऽतिकुर्कुटं दृष्टं यथा एकस्मिन् महति वृक्षे मिलिताः पक्षिगणो रात्रावेकेनातिवृद्धपक्षिणा निजभाषया भणितो रे रे पुत्राः ? अहं अतीव गन्तुं न शक्नोमि बुभुक्षितमनाः कदाचिद्भवत्पुत्राणां भक्षणं करोमि चित्तचापल्यादतो मम मुखं -- १ शाम्बलार्थमिति ख, ग। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456