Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 388
________________ ४८ रत्नकरण्डकश्रावकाचार हिंसाविरत्यणुव्रतात् मातंगेन चांडालेन उत्तमः पूजातिशयः प्राप्तः । अस्य कथा। सुरम्यदेशे पोदनपुरे राजा महाबलः । नन्दीश्वराष्टम्यां राज्ञा अष्टदिनानि जीवामारणघोषणायां कृतायां बलकुमारेण चात्यन्तमांसासक्तेन कंचिदपि पुरुषमपश्यता राजोद्याने राजकीयमेण्ढकः प्रच्छन्नेन मारयित्वा संस्कार्य भक्षितः । राज्ञा च मेण्ढकमारणवार्तामाकर्ण्य रुष्टेन मेण्टकमारको गवेषयितुं प्रारब्धः । तदुद्यानमालाकारेण च वृक्षोपरिचटि. तेन स तन्मारणं कुर्वाणो दृष्टः । रात्रौ च निजभार्यायाः कथितं ततः प्रच्छन्नचरपुरुषेणाकर्ण्य राज्ञः कथितं । प्रभाते मालाकारोऽप्याकारितः । तेनैव पुनः कथितं । मदीयामाज्ञां मम पुत्रः खण्डयतीति । रुष्टेन राज्ञा कोट्टपालो भणितो बलकुमारं नवखण्डं कारयेति ततस्तं कुमारं मारणस्थानं नीत्वा मातङ्गमानेतुं ये गताः पुरुषास्तान् विलोक्य मातङ्गेनोक्तं प्रिये ! मातङ्गो ग्रामं गत इति कथय त्वमेतेषामित्युक्त्वा गृहकोणे प्रच्छन्नो भूत्वा स्थितः । तलारैश्चाकारिते मातङ्गे ! कथितं मातंग्या सोऽद्य ग्रामं गतः । भणितं च तलौरैः स पापोऽपुण्यवानद्य ग्रामं गतः कुमास्मारणात्तस्य बहुसुवर्णरत्नादिलाभो भवेत् तेषां वचनमाकर्ण्य द्रव्यलुब्धया तैया हस्तसंज्ञया स दर्शितो ग्रामं गत इति पुनः पुनर्भणन्त्या । ततस्तैस्तं गृहान्निःसार्य तस्य मारणार्थ स कुमारः समर्पितः । तेनोक्तं नास्य (य) चतुर्दशीदिने जीवघातं करोमि । ततस्तलारैः स नीत्वा राज्ञः कथितः देव ! अयं राजकुमार न मारयति । तेन च राज्ञः कथितं सर्पदष्टो मृतः श्मशाने निक्षिप्तः सर्वौषधिमुनिशररिस्य वायुना पुनर्जी वितोऽहं तत्पार्थे चतुर्दशीदिवसे मया जीवाहिंसाव्रतं गृहीतमतोऽद्य १ पोदनापुरे क-ग-पाठः । २ राज्योद्याने ख-ग-पाठः । ३ तया माताभीतया ग-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456