Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
रत्नकरण्डकश्रावकाचारेतद्विरक्तचित्तामिच्छ यदि तस्य राज्यमात्मजीवितं च वाञ्छसीति । एतदाकर्ण्य जयेनोक्तं हे सुन्दरि ! मैवं ब्रूहि परस्त्री मम जननीसमानेति । ततस्तया जयस्योपसर्गे महति कृतेऽपि चित्तं न चलितं । ततो मायामुपसंहृत्य पूर्ववृत्तं कथयित्वा प्रशस्य वस्त्रादिभिः पूजयित्वा स्वर्ग गत इति पंचाणुव्रतस्य ॥ १८ ॥ ___ एवं पंचानामहिंसादिव्रतानां प्रत्येकं गुणं प्रतिपाद्येदानीं तद्विपक्षभूतानां हिंसाधुपेतानां दोषं दर्शयन्नाह;
धनश्रीसत्यघोषौ च तापसारक्षकावपि ।
उपाख्येयास्तथा श्मश्रुनवनीतो यथक्रमम् ॥ १९ ॥ धनश्री श्रेष्ठिनी हिंसातो बहुप्रकारं दुःखफलमनुभूतं । सत्यघोषपुरोहितेनानृतात् । तापसेन चौर्यात् । आरक्षकेन कोट्टपालेन ब्रह्मणि वृत्त्यभावात्। ततोऽव्रतप्रभवदुःखानुभवने उपाख्येया दृष्टान्तत्वेन प्रतिपाद्याः। के ते । धनश्रीसत्यघोषौ च । न केवलं एता एव किन्तु तापसारक्षकावपि । तथा तेनैव प्रसिद्धप्रकारेण श्मश्रुनवनीतो वणिक्, यतस्तेनापि परिग्रहनिवृत्यभावतो बहुतरदुःखमनुभूतं । यथाक्रमं उक्तक्रमानतिक्रमण हिंसादिविरत्यभावे एते उपाख्येयाः प्रतिपाद्याः । तत्र धनश्री हिंसातो बहुदुःखं प्राप्ता
अस्याः कथा। लाटदेशे भृगुककच्छपत्तने राजा लोकपालः । वणिग्धनपालो भार्या धनश्री मनागपि जीववधेऽविरता । तत्पुत्री सुन्दरी पुत्रो गुणपालः । अत्र काले धनश्रिया यः पुत्रबुद्धया कुण्डलो नाम बालकः पोषितः, धनपाले मृते तेन सह धनश्री कुकर्मरता जाता । गुणपले च गुणदोषपरिज्ञानके जाते धनश्रिया तच्छंकितया भणितः प्रसरे गोधनं चारयितुमटव्यां गुणपालं प्रेषयामि लग्नस्त्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456