Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
गुणव्रताधिकारस्तृतीयः ॥ ३॥
B EEEE अथ चरित्ररूपं धर्म व्याख्यासुराह;मोहतिमिरापहरणे दर्शनलाभादवाप्तसंज्ञानः ।
रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः ॥ १॥ 'चरणं' हिंसादिनिवृत्तिलक्षणं चारित्रं । ' प्रतिपद्यते ' स्वीकरोति । कोऽसौ ? 'साधु'भव्यः । कथंभूतः ? अवाप्तसंज्ञानः । कस्मात् ? दर्शनलाभात् । तल्लाभोऽपि तस्य कस्मिन् सति संजातः ? ' मोहतिमिरापहरणे' मोहोदर्शनमोहः स एव तिमिरं तस्यापहरणे यथासम्भवमुमशमे क्षये क्षयोपशमे वा । अथवा मोहो दर्शनचरित्रमोहस्तिमिरं ज्ञानावरणादि तयोरपहरणे । अयमर्थः-दर्शनमोहापहरणे दर्शनलाभः । तिमिरापहरणे सति दर्शनलाभादवाप्तसंज्ञानः भवत्यात्मा ज्ञानावरणापगमे हि ज्ञानमुत्पद्यमानं सद्दर्शनप्रसादात् सम्यग्व्यपदेशं लभते, तथाभूतश्चात्मा चारित्रमोहापगमे चरणं प्रतिपद्यते । किमर्थं ? ' रागद्वेषनिवृत्त्यै रागद्वेषनिवृत्तिनिमित्तं ॥१॥ ... तस्मिन्निवृत्तावेव हिंसादिनिवृत्तेः संभवादित्याहः
रागद्वेषनिवृत्तेहिंसादिनिवर्त्तना कृता भवति । __अनपेक्षितार्थवृत्तिः कः पुरुषः सेवते नृपतीन् ॥२॥ हिंसादेः निवर्तना व्यावृत्तिःकृता भवति । कुतः ? रागद्वेषनिवृत्तेः । अयमत्र तात्पर्यार्थः-प्रवृत्तरागादिक्षयोपशमादेः हिंसादिनिवृत्तिलक्षणं चरित्रं भवति ततो भाविरागादनिवृत्तेरेव प्रकृष्टतरप्रकृष्टतमादि निवर्तते देशसंयतादिगुणस्थाने रागादिहिंसादिनिीतस्तावद्वर्तते यावन्निःशे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456