________________
गुणव्रताधिकारस्तृतीयः ॥ ३॥
B EEEE अथ चरित्ररूपं धर्म व्याख्यासुराह;मोहतिमिरापहरणे दर्शनलाभादवाप्तसंज्ञानः ।
रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः ॥ १॥ 'चरणं' हिंसादिनिवृत्तिलक्षणं चारित्रं । ' प्रतिपद्यते ' स्वीकरोति । कोऽसौ ? 'साधु'भव्यः । कथंभूतः ? अवाप्तसंज्ञानः । कस्मात् ? दर्शनलाभात् । तल्लाभोऽपि तस्य कस्मिन् सति संजातः ? ' मोहतिमिरापहरणे' मोहोदर्शनमोहः स एव तिमिरं तस्यापहरणे यथासम्भवमुमशमे क्षये क्षयोपशमे वा । अथवा मोहो दर्शनचरित्रमोहस्तिमिरं ज्ञानावरणादि तयोरपहरणे । अयमर्थः-दर्शनमोहापहरणे दर्शनलाभः । तिमिरापहरणे सति दर्शनलाभादवाप्तसंज्ञानः भवत्यात्मा ज्ञानावरणापगमे हि ज्ञानमुत्पद्यमानं सद्दर्शनप्रसादात् सम्यग्व्यपदेशं लभते, तथाभूतश्चात्मा चारित्रमोहापगमे चरणं प्रतिपद्यते । किमर्थं ? ' रागद्वेषनिवृत्त्यै रागद्वेषनिवृत्तिनिमित्तं ॥१॥ ... तस्मिन्निवृत्तावेव हिंसादिनिवृत्तेः संभवादित्याहः
रागद्वेषनिवृत्तेहिंसादिनिवर्त्तना कृता भवति । __अनपेक्षितार्थवृत्तिः कः पुरुषः सेवते नृपतीन् ॥२॥ हिंसादेः निवर्तना व्यावृत्तिःकृता भवति । कुतः ? रागद्वेषनिवृत्तेः । अयमत्र तात्पर्यार्थः-प्रवृत्तरागादिक्षयोपशमादेः हिंसादिनिवृत्तिलक्षणं चरित्रं भवति ततो भाविरागादनिवृत्तेरेव प्रकृष्टतरप्रकृष्टतमादि निवर्तते देशसंयतादिगुणस्थाने रागादिहिंसादिनिीतस्तावद्वर्तते यावन्निःशे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org