SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ४० रत्नकरण्डकश्रावकाचारे षरागादिप्रक्षयः तस्माच्च निःशेषहिंसादिनिवृत्तिलक्षण परमोदासीनतास्वरूपं परमोत्कृष्टचारित्रं भवतीति । अस्यैवार्थस्य समर्थनार्थमर्थान्तरन्यासमाह-अनपेक्षितार्थवृत्तिः कः पुरुषः सेवते नृपतीन् अनपेक्षिताऽनभिलषिता अर्थस्य प्रयोजनस्य फलस्य वृत्तिः प्राप्तिर्येन स तथाविधः पुरुषः को नकोऽपि प्रेक्षापूर्वकारी सेवते नृपतीन् ॥ २ ॥ __ अत्रापरः प्राह-चरणं प्रतिपद्यत इत्युक्तं तस्य तु लक्षणं नोक्तं तदुच्यतां ? इत्याशंक्याह हिंसानृतचौर्येभ्यो मैथुनसेवापरिग्रहाभ्यां च । पापप्रणालिकाभ्यो विरतिः संज्ञस्य चारित्रम् ॥ ३ ॥ चारित्रं भवति । कासौ ? विरतिावृत्तिः । केभ्यः ? हिंसानृतचौर्येभ्यः हिंसादीनां स्वरूपकथनं स्वयमेवाने ग्रन्थकारः करिष्यति । न केवलमेतेभ्य एव विरति:-अपि तु मैथुनसेवापरिग्रहाभ्यां । एतेभ्यः कथंभूतेभ्यः ? पापप्रणालिकाभ्यः पापस्य प्रणालिका इव पापप्रणालिका आश्रवणद्वाराणि ताभ्यः । कस्य तेभ्यो विरतिः ? संज्ञस्य ससम्यजाना तीति संज्ञः तस्य हेयोपादेयतत्वपरिज्ञानवता ॥ ३ ॥ तचेत्थं भूतं चारित्रं द्विधा भिद्यत इत्याह; सकलं विकलं चरणं तत्सकलं सर्वसंगविरतानाम् । अनगाराणां विकलं सागाराणां ससंगानाम् ॥ ४ ॥ हिंसादिविरतिलक्षणं यच्चरणं प्राक्प्ररूपितं तत् सकलं विकलं च भवति। तत्र सकलं परिपूर्ण महाव्रतरूपं । केषां तद्भवति? अनगाराणां मुनीनां किंविष्टानां सर्वसंगविरतानां बाह्याभ्यन्तरपरिग्रहरहितानां । विकलमपरिपूर्ण अणुव्रतरूपं । केषां तद्भवति सागाराणां गृहस्थानां कथंभूतानां ? ससंगानां सग्रन्थानाम् ॥ ४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy