SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। तत्र विकलमेव तावद्वतं व्याचष्टेः- गृहिणां त्रेधा तिष्ठत्यणुगुणशिक्षाव्रतात्मकं चरणम् । पश्चत्रिचतुर्भेदं त्रयं यथासङ्ख्यमाख्यातम् ॥५॥ गृहिणां सम्बन्धि यत् विकलं चरणं तत्त्रेधा त्रिप्रकारं तिष्ठति भवति। किंविशिष्टं सत् ? अणुगुणशिक्षावतात्मकं सत् अणुव्रतरूपं गुणव्रतरूपं शिक्षाव्रतरूपं सत् । त्रयमेव तत्प्रत्येकं । यथासंख्यं । पंचत्रिचतुर्भेदमाख्यातं प्रतिपादितं । तथा हि । अणुव्रतं पंचभेदं गुणवतं त्रिभेदं शिक्षाव्रतं चतुर्भेदमिति ॥ ५ ॥ तत्राणुव्रतस्य तावत्पंचभेदान् प्रतिपादयन्नाहः प्राणातिपातवितथव्याहारस्तेयकाममूछेभ्यः। स्थूलेभ्यः पापेभ्यो व्युपरमणमणुव्रतं भवति ॥ ६॥ 'अणुव्रत' विकलव्रतं । किं तत् ? व्युपरमणं व्यावर्तनं यत् । केभ्यः इत्याह प्राणेत्यादि प्राणानाभिन्द्रियादिकमतिपातश्चातिपतनं वियोगकरणं विनाशनं । 'वितथव्याहारश्च' वितथोऽसत्यः स चासौ व्याहारश्च शब्दः । स्तेयं च चौर्य । कामश्च मैथुनं। मूर्छा च परिग्रहः मूर्छा च लोभावेशात् परिगृह्यते इति मूर्छा इति व्युत्पतेः । तेभ्यः कथंभूतेभ्यः ? स्थूलेभ्यः अणुव्रतधारिणो हि सर्वसावद्यविरतेरसंभवात् स्थूलेभ्य एव हिंसादिभ्यो व्युपरमणं भवति । तर्हि त्रसप्राणातिपातानिवृत्तो न स्थावरप्राणातिपातात् । तथा पापादिभयात् परपीडादिकारणमिति मत्वा स्थूलादसत्यवचनिवृत्तो न तद्विपरीतात् । तथान्यपीडाकरात् राजादिभयादिना परेण परित्यक्तादप्यदत्तार्थात् स्थूलानिवृत्तो न तद्विपरीतात् । तथा उपात्तायाश्च पराङ्गनायाः पापभयादिना निवृत्तो नान्यथा इतिस्थूलरूपाऽब्रह्म- १ तद इति ग-पुस्तके। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy