________________
४२
रत्नकरण्डकश्रावकाचारे
निवृत्तिः । तथा धनधान्यक्षेत्रादरिच्छावशात् कृतपरिच्छेदा इति स्थूलरू पात् परिग्रहान्निवृत्तिः । कथंभूतेभ्यः प्राणातिपातादिभ्यः ? पापेभ्यः. पापाश्रवणद्वारेभ्यः ॥ ६ ॥
तत्राद्यव्रतं व्याख्यातुमाह :
सङ्कल्पात्कृतकारितमननाद्योगत्रयस्य चरसत्वान् ।
"
"
1
न हिनस्ति यत्तदाहुः स्थूलवधाद्विरमणं निपुणाः ॥ ७ ॥ 'चरसत्वान्' त्रसजीवान् यन्न हिनस्ति तदाहुः स्थूलवधाद्विरमणं । के ते ? निपुणा: हिंसादिविरतिव्रतविचारदक्षाः । कस्मान्नहिनस्ति ? संकल्पात् संकल्पं हिंसाभिसंध्यमाश्रित्य । कथंभूतात्, संकल्पात् ! कृतकारितानुमननात् कृतकारितानुमननरूपात् । कस्य सम्बन्धिनः ? योगत्रयस्य मनोवाक्कायत्रयस्य । अत्र कृतवचनं कर्तुः स्वातंत्र्यप्रतिपत्त्यर्थे । कारितानुविधानं परप्रयोगापेक्षमनुवचनं । अनुमननवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थे । तथा हि मनसा चरसत्वहिंसां स्वयं न करोमि चरसत्वान् हिनस्ती (स्मी ) ति मनः संकल्पं न करोमीत्यर्थः चरसत्वहिंसामन्यं न कारयामि चरसत्वान् हिंसय हिंसयेति मनसा प्रयोजको न भवामीत्यर्थः । तथा अन्यं चरसत्वहिंसां कुर्वन्तं मनसा नानुमन्ये सुन्दरमन्येन कृतमिति मनः संकल्पं न करोमी त्यर्थः । एवं वचसा स्वयं चरसत्वहिंसां न करोमि चरसत्वान् हिमस्मीति स्वयं वचनं नोच्चारयामीत्यर्थः । वचसा चरसत्वहिंसां न कारयामि चरस - त्वान् हिंसय हिंसेति वचनं नोच्चारयामीत्यर्थः । तथा वचसा चरस - त्वहिंसां कुर्वन्तं नानुमन्ये साधुकृतं त्वयेति वचनं नोच्चारयामीत्यर्थः । तथा कायेन चरसत्वहिंसां न करोमि चरसत्वहिंसने दृष्टिमुष्टिसन्धाने
१ संकल्पात - हिंसाभिसन्धिमाश्रित्य ग पुस्तके । २ कारिताभिधानं ग पुस्तके | ३ अनुवचनं ख- पुस्तके | अनुमननं वचनं ग-पुस्तके |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org