________________
तृतीयः परिच्छेदः।
४३.
स्वयं कायव्यापारं न करोमीत्यर्थः । तथा कायेन चरसत्वहिंसां न कारयामि चरसत्वहिंसने कायसंज्ञया परं नप्रेरयामीत्यर्थः । तथा चरसत्वहिंसां कुर्वन्तमन्यं नखच्छोटिकादिना कायेन नानुमन्ये । इत्युक्तमहिंसाणुव्रतम् ॥ ७॥ तस्येदानीमतीचारानाहः
छेदनबन्धनपीडनमतिभारा रोपणं व्यतीचाराः ।
आहारवारणापि च स्थूलवधादव्युपरतेः पञ्च ॥ ८॥ व्यातीचारा विविधा विरूपका वा अतांचारा दोषाः । कति ? पंच । कस्य ? स्थूलवधायुपरतेः । कथामित्याह छेदनेत्यादि कर्णनासिकादीनामवयवानामपनयनं छेदनं । अभिमतदेशे गतिनिरोधहेतुर्बन्धनं पीडा दण्डकशाधभिवातः । अतिभारारोपणं । न्याय्यभारादधिकभारारोपणं । न केवलमेतच्चतुष्टयमेव किन्तु आहारवारणापि च आहारस्यअन्नपानलक्षणस्य वारणा निषेधो धारणा वा निरोधः ॥ ८ ॥
एवमहिंसाणुव्रतं प्रतिपाद्येदानीमनृतविरत्यणुव्रतं प्रतिपादयन्नाहःस्थूलमलीक न वदति न परान् वादयति सत्यमपि विपदे ।
यत्तद्वदन्ति सन्तः स्थूलमृषावादवैरमणम् ।। ९॥ . स्थूलश्चासौमृषावादश्च तस्माद्वैरमणं विरमणमेवबैरमणं तद्वदन्ति । के ते ? सन्तः सत्पुरुषाः। गणधरदेवादयः । तत्किं सन्तो वदन्ति किं तत् अलीकमसत्यं । कथंभूतं ? स्थूलं यस्मिन्नुक्ते स्वपरयोर्वधबन्धादिकं राजादिभ्यो भवति । तत्स्वयं तावन्न वदति । तथा । परानन्यान् तथाविधम
लीकं न वादयति । न केवलमलीक किन्तु सत्यमपि चोरोऽयमिःयादि. रूपं न स्वयं वदति न परान् वादयति । किं विशिष्टं यदुक्तं सत्यं परस्य विपदेऽपकाराप भवति ॥ ९॥
१ करोमीत्यर्थ इति क-ख-पाठः । ..........
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org