________________
रत्नकरण्डकश्रावकाचारे
साम्प्रतं सत्याणुव्रतस्यातीचारानाहः
परिवादरहोभ्याख्या पैशून्यं कूटलेखकरणं च ।
न्यासापहारितापि च व्यतिक्रमाः पञ्च सत्यस्य ॥१०॥ परिवादो मिथ्योपदेशोऽभ्युदयनिःश्रेयसार्थेषु क्रियाविशेष्वन्यस्यान्यथाप्रवर्तनमित्यर्थः । रहोऽभ्याख्या रहसि एकान्ते स्त्रीपुंसाभ्यामनुष्टितस्य क्रियाविशेषस्याभ्याख्या प्रकाशनं । पैशून्यं अंगविकारभूविक्षेपादिभिः पराभिप्रायं ज्ञात्वा असूयादिना तत्प्रकटनं साकारमत्रभेद इत्यर्थः । कूटलेख करणं च अन्येनानुक्तमननुष्ठितं यत्किंचिदेव तेनोक्तमनुष्ठितं चेति वंच नानिमित्तं कूट ठेखकरणं कूटलेखक्रियेत्यर्थः । न्यासापाहारिता द्रव्यनिक्षेप्तुर्विस्मृतसख्यस्याल्पसंख्यं द्रव्यमाददानस्य एवमेवेत्यभ्युपगमवचनं । एवं परिवादयश्चत्वारो न्यासापहीरता पंचमीति सत्यस्याणुव्रतस्य पंच व्यतिक्रमाः अतीचारा भवन्ति ॥१०॥
अधुना चोर्यविरत्यणुव्रतस्य स्वरूपं प्ररूपयन्नाहः... निहितं वा पतित वा सुविस्मृतं वा परस्वमविसृष्टं ।
न हरति यन्न च दत्ते तदकुशचौ-दुपारमणम् ॥ ११॥ अकृशचौर्यात् स्थूलचौर्यात् । उपारमणं तत् । यत् किं यत् नहरति न गृण्हाति । किं तत् ? परस्वं परद्रव्यं । कथंभूतं ? निहितं चा धृतं । तथा पतितं वा । तथा सुविस्मृतं वा अतिशयेन विस्मृतं । वा शब्दः सर्वत्र परस्परसमुच्चये । इत्थंभूतं परस्त्रं अविसृष्टं अदत्तं यत्स्वयं न हरति न दत्तेऽन्यस्मै तदकृशचौर्यादुपारमणं प्रतिपत्तव्यम् ॥ ११॥ तस्येदानीमतिचारानाहः
चौरप्रयोगचौरादानविलोपसदृशसन्मिश्राः । हीनाधिकविनिमानं पञ्चास्तेये व्यतीपाताः ॥ १२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org