________________
तृतीयः परिच्छेद
अस्तेये चौर्यविरमणे । व्यतीपाता अतीचाराः पंच भवन्ति । तथा हि । चोरप्रयोगः चोरयतः स्वयमेवान्येन वा प्रेरणं प्रेरितस्य वा अन्येनानुमोदनं । चौरार्थादानं च अप्रेरितेनाननुमतेन च चोरणानीतस्यार्थस्यग्रहणं । विलोपश्च उचितन्यायादनपेतप्रकारेणार्थस्यादानं विरुद्धराज्यातिक्रम इत्यर्थः विरुद्धराज्ये ह्याल्पमूल्यानि महाया॑णि द्रव्याणीति । सदृशसन्मिश्रश्च प्रतिरूपकव्यवहार इत्यर्थः सदृशेन तैलादिना सन्मित्रं घृतादिकं करोति । कृत्रिमैश्च हिरण्यादिभिर्वंचनापूर्वकं व्यवहारं करोति । होनाधिकविनिमानं विविधं नियमेन मानं विनिमानं मानोन्मानमित्यर्थ मानं हि प्रस्थादि, उन्मानं तुलादि तच्च हीनाधिकं हीनेन अन्यस्मै ददाति अधिकेन स्वयं गृहातीति ॥ १३ ॥ साम्प्रतमब्रह्मविरत्यणुव्रतस्वरूपं प्रतिपादयन्नाह:
न तु परदारान् गच्छति न परान् गमयति च पापभीतेर्यत् । सा परदारनिवृत्तिः स्वदारस
न्तोषनामापि ॥ १३॥ 'सा परादारनिवृत्तिः यत् परदारान् परिगृहीतानपरिगृहीतांश्च स्वयं 'न च' नैव गच्छति । तथा परानन्यान् परदारलम्पटान् न गमयति * परदारेषु गच्छतो यत्प्रयोजयति न च * । कुत ? पापभीतेः पापोपार्जनभयात् न पुनः नृपत्यादिभयात् । न केवलं सा परदारनिवृत्तिरेवोच्यते किन्तु स्वदारसन्तोषनामापि स्वदारेषु सन्तोषः स्वदारसन्तोषस्तन्नामयस्याः ॥ १३ ॥ . तस्यातीचारानाहः
१ परदारान् क-ख-पाठः । * पुष्पमध्यगतो पाठः ग-पुस्तके नास्ति । २ अपि तु ख ग-पाठः । ३ यस्य क-पाठः । ४ अस्य ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org