________________
रत्नकरण्डकश्रावकाचारे
अन्यविवाहाकरणानङ्गक्रीडाविटत्वविपुलतृषः । इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचाराः ॥ ॥ १४ 'अस्मरस्याब्रह्म निवृत्त्यणुव्रतस्य' पंच व्यतीचाराः । कथमित्याहअन्येत्यादि कन्यादानं विवाहोऽन्यस्य विवाहोऽन्यविवाहः तस्य आसमन्तात् करणं तच्च अनङ्गक्रीडाच अंगं लिंगं योनिश्च तयोरन्यत्र मुखादिप्रवेशे क्रीडा अनङ्गक्रीडा । विटत्वं भण्डिमाप्रधानकायवाक्प्रयोगः । विपुलतृपश्च कामतीत्राभिनिवेशः । इत्वरिकागमनं च परपुरुषानेति गच्छतीत्येवं शीला इत्वरी पुंश्चली कुत्सायां के कृते इत्वरिका भवति तत्र - गमनं चेति ॥ १४ ॥
૪૬
अथेदानीं परिग्रहविरत्यणुव्रतस्य स्वरूपं दर्शयन्नाह :धनधान्यादिग्रन्थं परिमाय ततोऽधिकेषु निःस्पृहता । परिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ।। १५ ।।
1
‘परिमितपरिग्रहो' देशतः परिग्रहविरतिरणुत्रतं स्यात् । कासौ ? या '' ततोऽविकेषु' 'निस्पृहता' ततस्तेभ्य इच्छावशात् कृतपरिसंख्यातेभ्योऽर्थेभ्योऽधिकेष्वर्थेषु या निस्पृहता वाञ्छाव्यावृत्तिः । किं कृत्वा ? 'परिमाय' देवगुरुपादाने परिमितं कृत्वा । कं ? धनधान्यादिग्रन्थं धनं गवादि, धान्यं ब्रह्मादि | आदिशब्दाद्दासीदास भार्यागृहक्षेत्र द्रव्यसुवर्णरूप्याभरणवस्त्रादिसंग्रहः । स चासौ ग्रन्थश्च तं परिमाय । स च परिमितपरिग्रहः इच्छा"परिमाणनामापि स्यात्, इच्छायाः परिमाणं यस्य स इच्छापरिमाणस्त-नाम यस्य स तथोक्तः ॥ १५ ॥
तस्यातिचारानाहः
--
अतिवाहनाति संग्रह विस्मयलोभाति भार वहनानि । परिमित परिग्रहस्य च विक्षेपा पञ्च लक्ष्यन्ते ॥ १६॥
Jain Education International
For Personal & Private Use Only
·
www.jainelibrary.org