SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। 'विक्षेपा' अतीचारः । पंच 'लक्ष्यन्ते' निश्चीयन्ते । कस्य ? परिमितपरिग्रहस्य न केवलमहिंसाद्यणुव्रतस्य पंचातीचारा निश्चीयन्ते अपि तु परिमितपरिग्रहस्यापि । चशब्दोऽत्रापिशब्दार्थे । के तस्यातीचारा इत्याहः-अतिवाहनेत्यादि लोभातिगृद्धिवृत्त्यर्थं परिग्रहपरिमाणे कृते. पुनर्लोभावेशवशादतिवाहनं करोति यावन्तं हि मार्ग बलीवर्दादयः सुखेन गच्छन्ति ततोऽप्यतिरेकेण वाहनमतिवाहनं । अतिशब्दः प्रत्येकं लोभान्तानां सम्बध्यते । इदं धान्यादिकमधे विशिष्टं लाभं दास्यतीति लोभावेशादतिशयेन तत् संग्रहं करोति । तत्प्रतिपन्नलाभेन विक्रीते तस्मिन् मूलतोऽप्यसंग्रहीते वाधिकेऽर्थे तत्कृपाणकेन लब्धे लोभावेशादतिविस्मयं विषादं करोति । विशिष्टेऽर्थे लब्धेऽप्यधिकलाभाकांक्षावशादतिलोभं करोति । लोभावेशादधिकभारारोपणम तिभारवाहनं । ते विक्षेपाः पंच ॥ १६ ॥ एवं प्ररूपितानि पंचाणुव्रतनि निरतिचाराणि किं कुर्वन्तीत्याहः पश्चाणुव्रतनिधयो निरतिक्रमणाः फलन्ति सुरलोकं । यत्रावधिरष्टगुणा दिव्यशरीरं च लभ्यन्ते ॥ १७॥ फलन्ति फलं प्रयच्छन्ति । के ते ? पंचाणुव्रतनिधयः पंचाणुव्रतान्येव निधयो निधानानि । कथंभूतानि ? निरतिक्रमणा निरतिचाराः । किं फलन्ति ? सुरलोकं । यत्र सुरलोके लभ्यन्ते । कानि ? अवधिरवधिज्ञानं । अष्टगुणा अणिमामहिमेत्यादयः । दिव्यशरीरं च सप्तधातुविवजितं शरीरं । एतानि सर्वाणि यत्र लभ्यन्ते ॥ १७॥ ___ इह लोके किं कस्याप्यहिंसाद्यणुव्रतानुष्ठानफलप्राप्तिदृष्टा येन परलोकार्थं तदनुष्ठीयते इत्याशंक्याहः__ मातंगो धनदेवश्च वारिषेणस्ततः परः । नीली जयश्च संप्राप्ताः पूजातिशयमुत्तमम् ॥ १८॥ ... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy