________________
रत्नकरण्डकश्रावकाचारे
श्रेष्ठिनी समुद्रदत्ता पुत्री दरिद्रा । मृते सागरदत्ते दरिद्रा एकदा परगृहे निक्षिप्तसिक्थानि भक्षयन्ती चर्स प्रविष्टेन मुनिद्वयेन दृष्टा ततो लघुमुनिनोक्तं हा ! वराकी महता कष्टेन जीवतीति । तदाकर्ण्य ज्येष्ठमुनिनोक्तं अत्रैवास्य राज्ञः पट्टराज्ञी वल्लभा भविष्यतीति । भिक्षां भ्रमता धर्मश्रीवदंकेन तद्वचनमाकर्ण्य नान्यथा मुनिभाषितमिति संचिन्त्य स्वविहारे तां नीत्वा मृष्टाहारैः पोषिता । एकदा यौवनभरे चैत्रमासे अन्दोलयन्ती तां राजा दृष्टा अतीब विरहावस्थां गतः । ततो मंत्रिभिस्तां तदर्थ वंदको याचितः। तेनोक्तं यदि मदीयं धर्म राजा गृह्णाति तदा ददामीति । तत्सर्वं कृत्वा परिणीता । पट्टमहादेवी तस्य सातिवलुभा जाता । फाल्गुननन्दीश्वरयात्रायामुर्विला रथयात्रामहारोपं दृष्टा तया भणिता देव ! मदीयो बुद्धरथोऽधुना पुर्या प्रथमं भ्रमतु । राज्ञा चोक्तमेवं भवत्विति । तत उर्विला वदति मदीयो रथो यदि प्रथमं भ्रमति तदाहारे मम प्रवृत्तिरन्यथा निवृत्तिरिति प्रतिज्ञां गृहीत्वा क्षत्रियगुहायां सोमदत्ताचार्यपाइँ गता । तस्मिन् प्रस्तावे वज्रकुमारमुनेर्वन्दनाभक्त्यर्थमायाता दिवाकरदेवादयो विद्याधरास्तदीयवृत्तान्तं च श्रुत्वा वज्रकुमारमुनिना ते भणिताः । उर्विलायाः प्रतिज्ञारूढाया रथयात्रा कारिता तमतिशयं दृष्टा पूतिमुखा बुद्धदासी अन्ये च जना जिनधर्मरता जाता इति ॥ २० ॥
ननु सम्यग्दर्शनस्याष्टभिरङ्गैः प्ररूपितैः किं प्रयोजनं ? तद्विकलस्याप्यस्य संसारोच्छेदनसामर्थ्यसंभवादित्याशंक्याहः
नांगहीनमलं छेत्तुं दर्शनं जन्मसन्ततिम् । .
न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनां ॥ २१ ॥ ' दर्शनं कर्तृ । जन्मसन्ततिं । संसारप्रबन्धं । ' छेत्तुं । उच्छेदयितुं ' नालं' न समर्थ । कथंभूतं सत् , ' अंगहीनं ' अंगौनिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org