SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः। २५ शंकितत्वादिस्वरूपैहीनं विकलं । अस्यैवार्थस्य समर्थनार्थं दृष्टान्त माह-'नही' त्यादि सर्पादिदष्टस्य प्रसृतसर्वांगविषवेदनस्य तदपहरणार्थ प्रयुक्तो मंत्रोऽक्षरेणापि न्यूनो हीनो 'नहि' नैव 'निहन्ति' स्फोटयति विषवेदनां । ततः सम्यग्दर्शनस्य संसारोच्छेदसाधनेऽष्टाङ्गोपेतत्वम् । तस्य संसारोच्छेदसाधनं स्यादिति चेदुच्यते लोकदेवतापाखंडिमूढभेदात् त्रीणि भवन्ति । तत्र लोकमूढं तावदर्शयन्नाहः आपगासागरस्नानमुच्चयः सिकताश्मनाम् । गिरिपातोऽग्निपातश्च लोकमूढं निगद्यते ॥ २२ ॥ 'लोकमूढं ' लोकमूढत्वं । किं ? ' आपगासागरस्नानं ' आपगा नदी सागरः समुद्रः तत्र श्रेयःसाधनाभिप्रायेण यत्स्नानं न वपुः शरीरप्रक्षालनाभिप्रायेण । तथा — उच्चयः ' स्तूपविधानं । केषां ? सिंकताश्मनां ' सिकता वालुका, अश्मानः पाषाणास्तेषां । तथा ' गिरि. पातो ' भृगुपातादिः । · अग्निपातश्च ' अग्निप्रवेशः । एवमादिसर्वे लोकमूढं ' निगद्यते ' प्रतिपाद्यते ॥ २२ ॥ देवतामूढं व्याख्यातुमाहः-- वरोपलिप्सयाशावान् रागद्वेषमलीमसाः। देवता यदुपासीत देवतामूढमुच्यते ॥ २३॥ 'देवतामूढं ' ' उच्यते । 'यदुपासीत' आराधयेत् । काः देवताः' । कथंभूताः, ' रागद्वेषमलीमसाः ' रागद्वेषाभ्यां मलीमसा मलिनाः । किं विशिष्टः ? ' आशावान् । ऐहिकफलाभिलाषी । कया ? — वरोपलिप्सया' वरस्य वाञ्छितफलस्य, उपलिप्सया प्राप्तुमिच्छया। नन्वेवं श्रावकादीनां शासनदेवतापूजाविधानादिकं सम्यग्दर्शनम्लानताहेतुः प्राप्नोनीति चेत् एवमेतत् यदि वरोपलिप्सया कुर्यात् । यदा तु सक्तदेवता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy