SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ___ रत्नकरण्डकश्रावकाचारेत्वेन तासां तत्करोति तदा न तन्म्लानताहेतुः । तत् कुर्वतश्च दर्शनपक्ष. पाताद्वरमयाचितमपि ताः प्रयच्छन्त्येव । तदकरणे चेष्टदेवताविशेषात् फलप्राप्तिनिर्विघ्नतो झटिति न सिद्धयति । न हि चक्रवर्तिपरिवारापूजने सेवकानां चक्रवर्तिनः सकाशात् तथा फलप्राप्तिदृष्टा ॥ २३ ॥ इदानीं सद्दर्शनस्वरूपे पाषण्डिमूढस्वरूपं दर्शयन्नाहः सग्रन्थारम्भहिंसानां संसारावर्त्तवर्तिनाम् । पाषण्डिनां पुरस्कारो ज्ञेयं पापण्डिमोहनम् ॥ २४ ॥ पाषण्डिमोहनं ज्ञेयं ज्ञातव्यं । कोऽसौ ? ' पुरस्कारः ' प्रशंसा । केषां ? 'पाषण्डिनां' मिथ्यादृष्टिलिंगिनां । किं विशिष्टानां ? ' सग्रन्थारंभहिंसाना ' ग्रन्थाश्च दासीदासादयः, आरंभाश्च कृष्यादयः हिंसाश्च 'अनेकविधाः प्राणिवधाः सह ताभिर्वर्तन्त इत्येवं ये तेषां । तथा — संसारावर्तवर्तिनां ' संसारे आवर्ती भ्रमणं येभ्यो. विवाहादिकर्मभ्यस्तेषु वर्तते. इत्येवं शीलास्तेषां । एतैत्रिभिर्मूढैरपोढत्वसम्पन्नं सम्यग्दर्शनं संसारोच्छित्तिकारणं अस्मयत्वसम्पन्नवत् ॥ २४ ॥ कः पुनरयं स्मयः कतिप्रकारश्चेत्याह:ज्ञानं पूजां कुलं जाति बलमृद्धिं तपो वपुः । अष्टावाश्रित्य मानित्वं स्मयमाहुर्गतस्मयाः ॥ २५ ॥ 'आहु'ध्रुवन्ति । कं? 'स्मयं'। के ते? 'गतस्मयाः' नष्टमदाः जिनाः। किं तत् ? ' मानित्वं । किं कृत्वा ? 'अष्टावाश्रित्य ' । तथा हि। ज्ञानमा श्रत्य ज्ञानमदो भवति । ननु शिल्पमदस्य नवमस्य प्रसक्तेरष्टाविति संख्यानुत्पन्नाः इत्यप्ययुक्तं तस्य ज्ञाने एवान्तावात् अनेनाष्टविधमदेन चेष्टमानस्य दोषं दर्शयन्नाह : स्मयेन योऽन्यानत्येति धर्मस्थान् गर्विताशयः । सोऽत्येति धर्ममात्मीयं न धर्मो धार्मिकैर्विना ॥ २६ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy