________________
प्रथमः परिच्छेदः।
'स्मयेन ' उक्तप्रकारेण 'गर्विताशयो' दर्पितचित्तः यो जीवः । 'धर्मस्थान् ' रत्नत्रयोपेतानन्यान् । 'अत्येति ' अवधीरयाति अवज्ञयातिक्रामतीत्यर्थ : ।' सोऽत्येति ' अवधीरयति । कं ! : धर्म' रत्नत्रयं । कथंभूतं ? 'आत्मीयं जिनपतिप्रणीतं । यतो धर्मो 'धार्मिकै ' रत्नत्रयानुष्ठायिभिर्विना न विद्यते ॥ २६॥ ननु कुलैश्वर्यादिसम्पन्नैः स्मयं कथं निषेढुं शक्य इत्याहः--
यदि पापनिरोधोऽन्यसम्पदा किं प्रयोजनम् ।
अथ पापास्रवोऽस्त्यन्यसम्पदा किं प्रयोजनम् ॥ २७ ॥ पापं ज्ञानावरणाद्यशुभं कर्म निरुद्धयते येनासौ ' पापनिरोधो रत्नत्रय-.' सद्भावः स यद्यस्ति तदा 'अन्यसम्पदा' अन्यस्य कुलैश्वर्यादेः सम्पदा सम्पत्या किमपि प्रयोजनं, तन्निरोधेऽतोऽप्यधिकाया विशिष्टतरादेतत्सम्पदः सद्भावमवबुद्धयमानस्य तन्निबन्धनस्मयस्यानुत्पत्तेः । 'अथ पापात्रवोऽस्ति । पापस्याशुभकर्मणः आस्रवो मिथ्यात्वापिरत्यादिरास्त किं प्रयोजनं अने दुर्गतिगमनादिकं अवबुद्धयमानस्य तत्सम्पदा प्रयोजनामा-. वस्तत्समयस्य कर्तुमनुचितत्वात् ॥ २७ ॥ अमुमेवार्थ प्रदर्शयन्नाहःसम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम् ।
देवा देवं विदुर्भस्मगूढांगारान्तरौजसम् ॥ २८॥ .. 'देवं ' आराध्यं । 'विदु मन्यन्ते। के ते ? 'देवा' " देवा वितस्स"
णमंति जस्स धम्मे सया मणो" इत्यभिधानात् । कमपि ? ' मातंगदेहजमपि' चांडालमपि। कथंभूतं ? — सम्यग्दर्शनसम्पन्नं ' सम्यग्दर्शनेन सम्पन्नं युक्तं । अतएव 'भस्मगूढाङ्गारान्तरौजसं' भस्मना गूढः प्रच्छा-- दितः स चासावङ्गारश्च तस्य अन्तरं मध्यं तत्रैव ओजः प्रकाशो निर्मलता. यस्य ॥ २८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org