SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारे एकस्य धर्मस्य विविधं फलं प्रकाश्येदानीमुभयोर्धमाधर्मयोर्यथाक्रम फलं दर्शयन्नाहः श्वापि देवोऽपि देवः श्वा जायते धर्मकिल्बिषात् । कापि नाम भवेदन्या सम्पद्धर्माच्छरीरिणाम् ॥ २९॥ 'श्वापि' कुक्करोऽपि 'देवो' जायते । 'देवोऽपि' देवः 'श्वा' जायते । कस्मात् ? 'धर्मकिल्विषात्' धर्ममाहात्म्यात् खलु श्वापि देवो भवति । किल्विषात् पापोदयात् पुनर्देवोऽपि श्वा भवति। एवं ततः 'कापि ' वाचामगोचरा 'नाम' स्फुटं 'अन्या' न पूर्वा द्वितीया वा 'सम्पद्विभूतिविशेषो भवेतू' । कस्मात् ? धर्मात् । केषां ? ' शरीरिणां ' संसारिणां । यत • एवं ततो धर्मएव प्रेक्षावतानुष्ठातव्यः ॥ २९ ॥ ते चानुष्ठिता दर्शनम्लानता मूलतोऽपि न कर्तव्येत्याहः भयाशास्नेहलोभाच कुदेवागमलिंगिनाम् । प्रणामं विनयं चैव न कुयुः शुद्धदृष्टयः ॥ ३०॥ 'शुद्धदृष्टयो' निर्मलसम्यवत्त्वाः न कुर्युः । कं ? 'प्रमाणं ' उत्तमाङ्गेनोपनति। 'विनयं चैव' करमुकुलप्रशंसादिलक्षणं । केषां ? कुदेवागमलिंगिनां । कस्मादापि ? 'भयाशास्नेहलोभाच्च' भयं राजादिजनितं, आशा च भाविनोऽर्थस्य प्रत्याकांक्षा, स्नेहश्च मित्रानुरागः, लोभश्च वर्तमानकालेऽर्थप्राप्तिगृद्धिः, भयाशास्नेहलोभं तस्मादपि । चशब्दोऽप्यर्थः ॥ ३० ॥ ननु मोक्षमार्गस्य रत्नत्रयरूपत्वात् कस्माद्दर्शनस्यैव प्रथमतः स्वरूपाभिधानंकृतमित्याहः • दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते ।। दर्शनं कर्णधारं तन्मोक्षमार्ग प्रचक्ष्यते ॥ ३१॥ 'दर्शन' कर्तृ 'उपाश्नुते' प्राप्नोति । कं ? 'साधिमान' साधुत्वमुत्कृष्टत्वं -वा कस्मात् ? ज्ञानचारित्रात् । यतश्च साधिमानं तस्माद्दर्शनमुपा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy