SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः। श्नुते। 'तत्' तस्मात् । 'मोक्षमार्गे' रत्नत्रयात्मके 'दर्शनं कर्णधारं ' प्रधानं प्रचक्ष्यते । तथैव हि कर्णधारस्य नौखेवटकैवर्तकस्याधीना समुद्रपरतीरगमने नावः प्रवृत्तिः तथा संसारसमुद्रपरयंतगमने सम्यग्दर्शन-- कर्णधाराधीना मोक्षमार्गनावः प्रवृत्तिः ॥ ३१ ॥ __ननु चास्योत्कृष्टत्वे सिद्धे कर्णधारत्वं सिद्धयति तस्य च कुतः सिद्ध.. मित्याहः विद्यावृत्तस्य संभूतिस्थितिवृद्धिफलोदयाः। न सन्त्यसतिसम्यक्त्वे बीजाभावे तरोरिव ॥ ३२ ॥ 'सम्यक्त्वेऽसति' अविद्यमाने । 'न सन्ति'। के ते ? संभूतिस्थितिवृद्धिफलोदयाः । कस्य ? विद्यावृत्तस्य । अयमर्थः-विद्याया मतिज्ञानादिरूपायाः वृत्तस्यच सामायिकादिचारित्रस्य या संभूतिः प्रादुर्भावः, स्थितिर्यथावत्पदार्थपरिच्छेदकत्वेन कर्मनिर्जररादिहेतुत्वेन चावस्थानं, वृद्धिरुत्पन्नस्य परतर उत्कर्षः फलोदयो देवादिपूजायाः स्वर्गापवर्गादेश्च फलस्योत्पत्तिः । कस्याभावे कस्येव ते न स्युरित्याह-बीजाभावे तरोरिव बीजस्य मूलकारणस्याभावे यथा तरोस्ते न सन्ति तथा सम्यक्त्वास्यपि मूलकारणभूतस्याभावे विद्यावृत्तस्यापि ते न सन्तीति ॥ ३२ ॥ - यश्च सम्यग्दर्शनसम्पन्नो गृहस्थोऽपि तदसम्पन्नान्मुनेरुत्कृष्टस्ततोऽपि सम्यग्दर्शनमेवोत्कृष्टमित्याहः। गृहस्थो मोक्षमार्गस्थो निर्मोहो नैव मोहवान् । अनगारो गृही श्रेयान् निर्मोहो मोहिनो मुनेः॥३३॥ 'निर्मोहो' दर्शनप्रतिबन्धकमोहनीयकर्मरहितः सद्दर्शनपरिणत इत्य.. ' र्थः । इत्थं भूतो गृहस्थो मोक्षमार्गस्थो भवति — अनगारो' यतिः पुनः . १ नौषेटककैवर्तकस्य क। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy