SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३० रत्नकरण्डकश्रावकाचारे 'नैव' मोक्षमार्गस्थो भवति । किं विशिष्टः ? 'मोहवान्' दर्शनमोहोपेतः। मिथ्यात्वपरिणत इत्यर्थः । यत एवं ततो गृहस्थोऽपि निर्मोहः स 'श्रेयान् उत्कृष्टः । कस्मात् ? मुनेः । कथंभूतात् ? 'मोहिनो' दर्शनमी: हयुक्तात् । ॥ ३४ ॥ यत एवं ततः न सम्यक्त्वसमं किञ्चित्काल्ये त्रिजगत्यपि। ... श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम् ॥ ३४॥ 'तनूभतां' संसारिणां । ' सम्यक्त्वसमं' सम्यक्त्वेन समं तुल्यं । 'श्रेयः' श्रेष्ठमुत्तमोपकारकं । 'किंचित्' अन्यवस्तु नास्ति । यतस्तस्मिन् सति गृहस्थोऽपि यतेरप्युत्कृटतां प्रतिपद्यते । कदा तन्नास्ति ? 'काल्ये' अतीतानायतवर्तमानकालत्रय । तस्मिन् क तन्नास्ति ? ' त्रिजगत्यपि ' आस्तां तावन्नियतक्षेत्रादौ तन्नास्ति अपितु त्रिजगत्यपि त्रिभुवनेऽपि तथा 'अश्रेयो' अनुपकारकं । मिथ्यात्वसमं किंचिदन्यन्नास्ति । यतस्तत्सद्भावे यतिरपि व्रतसंयमसम्पन्नो गृहस्थादपि तद्विपरीततां तदपकृष्टतां व्रजतीति ॥ ३४॥ इत्य ( तोऽ) पि सद्दर्शनमेव ज्ञानचारित्राभ्यामुत्कृष्टमित्याहःसम्यग्दर्शनशुद्धा नारकतिर्यइनपुंसकत्रीत्वानि । दुष्कुलविकृताल्पायुर्दरिद्रतांच व्रजन्ति नाप्यव्रतिकाः ॥३५॥ 'सम्यग्दर्शनशुद्धा' सम्यग्दर्शनं शुद्धं निर्मलं येषां ते । सम्यग्दर्शनलाभात्पूर्व बद्धायुष्कान् विहाय अन्ये 'न व्रजन्ति' न प्राप्नुवन्ति । कानि । नारकतिर्यसपुंसकत्रीत्वानि त्वशब्दः प्रत्येकमभिसम्बध्यते नारकत्वं तिर्यक्त्वं नपुंसकत्वस्त्रीत्वमिति । न केवलमेतान्येव न व्रजन्ति किन्तु "दुष्कुलविकृताल्पायुर्दरिद्रतांच' अत्रापि ताशब्दः प्रत्येकमभिसम्बध्यते ये निर्मलसम्यक्त्वाः ते न भवान्तरे दुष्कुले उत्पत्ति विकृततां काणकुं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy