________________
प्रथमः परिच्छेदः ।
३१
-ठादिरूपविकारं अल्पायुष्कतामन्तर्मुहूर्ताद्यायुष्कोत्पत्ति, दरिद्रतां दारिद्योतकुलोत्पत्तिं । कथंभूता अपि एतत्सर्वं व्रजन्ति ' अव्रतिका अपि ' अणुव्रत रहिता अपि,
स न व्रजन्ति तर्हि भवान्तरे कीदृशास्ते भवन्तीत्याह :ओजस्तेजोविद्यावीर्य्ययशोवृद्धिविजयविभवसनाथाः । महाकुला महार्था मानवतिलका भवन्ति दर्शनपूताः ॥ ३६ ॥ दर्शनपूता ' दर्शनेन पूताः पवित्रिताः दर्शनं वा पूतं पवित्रं येषां ते भवन्ति 'मानवतिलका: ' मानवानां मनुष्याणां तिलका मण्डनीभूता मनुष्यप्रधानाइत्यर्थः । पुनरपि कथंभूता इत्याह 'ओज' इत्यादि ओज उत्साहः तेजः प्रतापः कान्तिर्वा, विद्या सहजा अहार्या च बुद्धि:, वीर्ये विशिष्टं सामर्थ्य, यशो विशिष्टा ख्यातिः वृद्धिः कलत्रपौत्रादिसम्पत्तिः, विजयः परविभवेनात्मनो गुणोत्कर्षः, विभवो धनधान्यद्रव्यादिसम्पत्तिः, एतैः सनाथा सहिताः । तथा ' महाकुला 'महच्च कुलं च तत्र भवाः । ' महार्था ' महन्तो धर्मार्थकाममोक्षलक्षणा येषाम् ॥ ३६ ॥
तथा इन्द्रपदमपि सम्यग्दर्शनशुद्धा एव प्राप्नुवन्तीत्याहः - अष्टगुण पुष्टिष्टा दृष्टिविशिष्टाः प्रकृष्टशोभाजुष्टाः अमराप्सरसां परिषदि चिरं रमन्ते जिनेन्द्रभक्ताः स्वर्गे ॥ ३७॥ देवदेवीनां सभायां । 'चिरं ' बहुतरं कालं । ' रमन्ते ' क्रीडन्ति । कथंभूता: ? ' अष्टगुणपुष्टितुष्टा: ' अष्टगुणा अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यं, ईशित्वं, वशित्वं कामरूपित्वमित्येतल्लक्षणास्ते च पुष्टिः स्वशरीरावयवानां सर्वदोपचितःचं तेषां वा पुष्टिः परिपूर्णत्वं तया तुष्टाः सर्वदा प्रमुदिताः । तथा 'प्रकृष्टशोभाजुष्टा' इतरदेवेभ्यः प्रकृष्टा उत्तमा शोभा. तया जुष्टा सेविताः सेवाजुष्टा सेविताः इन्द्राः सन्त इत्यर्थः ॥ ३७ ॥ तथा चक्रवर्तित्वमपि त एव प्राप्नुवन्तीत्याह :
6
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org