SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारे नवनिधिसप्तद्वयरत्नाधीशाः सर्वभूमिपतयश्चक्रम् । वर्तयितुं प्रभवन्ति स्पष्टदृशः क्षत्रमौलिशेखरचरणाः॥३८॥ ये ' स्पष्टदृशो' निर्मलसम्यक्त्वाः त एव 'चक्र' चक्रस्य रत्नं 'वर्तयितुं' आत्माधीनतया तत्साध्यनिखिलकार्येषु प्रवर्तयितुं 'प्रभवन्ति' ते समर्था भवन्ति । कथंभूताः ? सर्वभूमिपतयः सर्वा चासौ भूमिश्च षड्खण्ड पृथ्वी तस्याः पतयः चक्रवर्तिनः । पुनरपि कथंभूताः ? ' नवनिधिसप्तद्वय रत्नाधीशा' नवनिधयश्च सप्तद्वयरत्नानि सप्तानां द्वयं तेन संख्याता चतुर्दश तेषामधीशाः स्वामिनः । क्षत्रमौलिशखरचरणाः क्षत्रादोषात् त्रायन्ते रक्षन्ति प्राणिनो ये ते क्षत्रा राजानस्तेषां मौलयो मस्तकानि तेषु शिखराणि मुकुटानि तानि चरणेषु येषां ॥ ३८ ॥ तथा धर्मचक्रिणोऽपि सद्दर्शनमाहात्म्याद्भवन्तीत्याहःअमरासुरनरपतिभिर्यमधरपतिभिश्च नूतपादाम्भोजाः । दृष्टया सुनिश्चितार्थी वृषचक्रधरा भवन्ति लोकशरण्याः॥३९॥ 'दृष्टया' सम्यग्दर्शनमाहात्म्येन । ' वृषचक्रधरा भवन्ति ' वृषो धर्मः तस्य चक्रं वृषचक्रं तद्धरन्ति ये ते वृषचक्रधरास्तीर्थकराः। किं विशिष्ठाः ? 'नूतपादाम्भोजाः' पादावेवाम्भोजे, नूते स्तुते पादाम्भोजे येषां । कैः ? 'अमरासुरनरपतिभिः ' अमरपतयः ऊर्ध्वलोकस्वामिनः सौधर्मादयः, असुरपंतयोऽधोलोकस्वामिनो धरणेन्द्रादयः, नरपतयः तिर्यग्लोकस्वामिनश्चक्रवर्तिनः । न केवलमेतैरेव, नूतपादाम्भोजाः किन्तु ' यमधरपतिभिश्च' यमं व्रतं धरन्ति ये ते यमधरा मुनयस्तेषां पतयो गणधरास्तैश्च । पुनरपि कथंभूतास्ते ? सुनिश्चितार्था शोभनो निश्चितः परिसमाप्ति गतोऽर्थो धर्मादिलक्षणो येषां । तथा 'लोकशरण्याः ' अनेकविधदुःखदायिभिः कर्मारातिभिरुपद्रतानां लोकानां शरणे साधवः ॥ ३९ ॥ तथा मोक्षप्राप्तिरपि सम्यग्दर्शनशुद्धानामेव भवतीत्याह; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy