________________
प्रथमः परिच्छेदः ।
दोहलको जातः । ततः सोमदत्तेन तान्युद्यानवने अन्वेषयता यत्राम्रवृक्षे सुमित्राचार्यो योगं गृहीतवांस्तं नानाफलैः फलितं दृष्ट्रा तस्मात्तान्यादाय पुरुषहस्ते प्रेषितवान् । स्वयं च धर्मं श्रुत्वा निर्विण्णस्तपो गृहीत्वा आगममधीत्य परिणतो भूत्वा नाभिगिरौ आतपनेन स्थितः । यज्ञदत्ता च पुत्रं प्रसूता नीतं श्रुत्वा बंधुसमीपं गता । तस्य शुद्धिं ज्ञात्वा बन्धुभिः सह नाभिगिरिं गत्वा तमातपनस्थमालोक्यातिकोपात्तत्पादोपरि बालकं धृत्वा दुर्वचनानि दत्वा गृहं गता । अत्र प्रस्तावे दिवाकरदेवनामा विद्याधरोऽमरावतीपुर्याः पुरन्दरनाम्ना लघुभ्रात्रा राज्यान्निर्घाटितः । सकलत्रो मुनिं वन्दितुमायातः । तं बालं गृहीत्वा निजभार्यायाः समप्र्प्य वज्रकुमार इति नाम कृत्वा गतः । स च वज्रकुमारः कनकनगरे विमलवाहननिजमैथुनिकसमीपे सर्वविद्यापारगो युवा च क्रमेण जातः । अथ गरुडवेगाङ्गवत्योः पुत्री पवनवेगा हेमन्तपर्वते प्रज्ञप्ति विद्यां महाश्रमेण साधयन्ती पवनाकम्पितबदरीवज्रकंटकेन लोचने विद्धा । ततस्तत्पीडया चलचित्ताया विद्यां न सिद्ध्यति । ततो वज्रकुमारेण च तां तथा दृष्ट्वा विज्ञानेन कंटकमुद्धृतः। ततः स्थिरचित्तायास्तस्या विद्या सिद्धा । उक्तं च तया भवत्प्रसादेन एषा विद्या सिद्धा त्वमेव मे भर्त्तेत्युक्त्वा परिणीता । वज्रकुमारेणोक्तं तात ! अहं कस्य पुत्र इति सत्यं कथय तस्मिन् कथिते मे भोजनादौ प्रवृत्तिरिति । ततस्तेन पूर्ववृत्तान्तः सर्वः सत्य एव कथितः । तमाकर्ण्य निजगुरुं द्रष्टुं बन्धुभिः सह मथुरायां क्षत्रियगुहायां गतः । तत्र च सोमदत्तगुरोर्दिवाकरदेवेन वंदनां कृत्वा वृत्तान्तः कथितः । समस्तबन्धून् महता कष्टेन विसृज्य वज्रकुमारो मुनिर्जातः अत्रान्तर मथुरायामन्या कथा – राजा पूतिगन्धो राज्ञी उर्विला । सा च सम्यदृष्टितीव जिनधर्मप्रभावनायां रता । नन्दीश्वराष्टदिनानि प्रतिवर्षे जिने - न्द्ररथयात्रायां त्रीन् वारान् कारयति । तत्रैव नगर्यो श्रेष्ठी सागरदत्तः
I
१ तं ख, ग । २ गिरौ, ख, ग । ३ ऊर्वी, ग ।
Jain Education International
२३
For Personal & Private Use Only
www.jainelibrary.org