Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 146
________________ प्रश्नव्याकरण ज्ञान-1 वि० वृत्तिः ॥७ ॥ पञ्जरविराजितं अर्जुनाभिधानप्रधानपाण्डुरस्वर्णप्रत्यवस्तृतपृष्ठदेशं तपनातपवातवृष्टयादिदोषनाशकं च ॥९॥ चर्म द्विहस्तप्रमितं वैता. ६ अधर्मद्वारे ढयपर्वतोत्तरदिग्वति म्लेच्छकारिताऽतुच्छजलदवृष्टौ स्वामिकरामर्शात द्वादशयोजनविस्तृतं व्योम्नि स्थितमुपरि छत्ररत्नाच्छादित चक्रवर्तिसकलचक्रिसेनाजनानां वसुधारावदाधाररूपं प्रातरुप्तापराह्नः निष्पाद्यमानशाल्याद्युत्पत्तिनिमित्तं च ॥१०॥ मणिरत्नं चतुरङ्गुलप्रलम्ब 18 वर्णन द्वयङ्गुलपृथुलं वैडूर्यमयं व्यस्रं षडंशं छत्रतुम्बस्थं हस्तिस्कन्धस्थं च द्वादशयोजनानि प्रकाशयति, क्षुद्रोपद्रवान् विद्रावयति, हस्तस्थे । सू-१५ तस्मिन् स्थितयौवनः स्यात् अवस्थितकेशनखश्च ॥११॥ काकिणीरत्नं अष्टसौवर्णिकं चतुरङ्गुलं समचतुरस्रं सर्वविद्यापहारि तिमिस्राखण्डप्रपातागुहयोर्द्वादशयोजनावधितिमिरहरं चक्रिणा रजन्यां सैन्यान्तरन्यस्तं सूर्यवत् प्रकाशकरं चक्री च तिमिस्रागुहायां पूर्वपश्चिमभित्योः प्रत्येकं योजनान्तराणि पञ्चधनुःशतायामविष्कम्भाणि योजनं यावद्द्योतकानि चक्रनेम्याकाराणि वृत्तानि गोमत्रिकाक्रमेगैकस्यां भित्तौ पञ्चविंशतिः, परस्यां भित्तौ चतुर्विंशतिः एवं एकोनपञ्चाशतं मण्डलानि तेन काकिणीरत्नेन खटिकावत् सुखोल्लेखेन लिखति भरताऽपरार्द्धदिग्विजयाय यावत् चक्री तावत्तान्येव तिष्ठन्ति, गुहाऽपि च तावदिवोद्घाटा तिष्ठति, एवं खण्डप्रपातगुहायामपि ज्ञेयं ॥१२॥ खड्गो द्वात्रिंशदङ्गुलप्रमाणः संग्रामेऽप्रतिहतशक्तिः ॥१३॥ दण्डरत्नं रत्नमयं पश्चलताकं वज्रसारं व्यामप्रमाणं शत्रुसे| नावित्रासकं विषमोन्नतभूमिभागसमत्वकारकं शांतिकरं मनोरथपूरकं सर्वत्राऽप्रतिहतं योजनसहस्रमप्यधः प्रविशति ॥१४॥ चतुर्दशाऽपि चैतानि प्रत्येकं यक्षसहस्राधिष्ठितानि, एषु च सेनापत्यादीनि सप्त पञ्चेन्द्रियाणि, चक्रादीनि सप्तैकेन्द्रियाणि पृथ्वीरूपाणि ।। इति चतुदेशरत्नस्वरूपं लेशतो लिखितं विस्तरस्तु ग्रन्थान्तरादवसेयः । निधिस्वरूपप्रतिपादका गाथाश्येमाः जम्बूदीपपन्नत्तीप्रवचनसारोद्धारगता:- ॥७॥ नवनिधिपतयः, निधयश्चैवं

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204