Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 162
________________ अधर्मद्वारे माण्डलिक देवकुरुत्तर कुरुवर्णन सू-१५ चलणा, अणुपुव्वसुसंहयंगुलीया, उन्नयतणुतंबनिद्धनखा, संठितसुसिलिट्ठगूढगोंफा, एणीकुरुविंदवत्तवट्टाणुपुब्विप्रश्नव्याक जंघा, समुग्गनिसग्गगूढजाणू, घरवारणमत्ततुल्लविक्कम-विलासितगती, वरतुरगसुजायगुज्झदेसा, आइन्नहयरण ज्ञानवि० वृत्तिः | वत् । पुनः कीदृशाः ? रक्तोत्पलपत्रवत् कान्तानि मनोज्ञानि करचरणानां हस्तपादानां तलानि येषां ते, चरग-नख-पाणि-रसना दन्तच्छद-लोचनान्ताः सप्तरक्ताः सप्ताङ्गलक्ष्मीदा इति वचनात् । पुनः कीदृशाः ? सुप्रतिष्ठिताः-सुप्रतिष्ठावन्तः सुस्थिराः कूर्मवत् ॥७८॥ कच्छपवत् चारवः शोभनाश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाट्या वर्द्धमाना हीयमाना वा प्रतीतसत्यत्वेन सुसंहता घना-अविरलानिच्छिद्रा अङ्गुल्यो येषां ते तथा, वाचनान्तरे आनुपुब्बीसुजायपीवरंगुलिका पाठः। पुनः कीदृशाः? उन्नता तनवः-सूक्ष्माः ताम्रा ताम्रवत् अरुणा स्निग्धा झगझगायमाना नखाः करजा येषां ते, संस्थानविशेषतया सुस्थितौ सुश्लिष्टौ-सुघटितौ मांसलत्वात् है अनुपलक्षितौ गूढौ-गुप्तौ गुल्फो घुटको येषां ते तथा । एणी-मृगी तस्याः जङ्घा तथा कुरुविन्दस्तुणविशेषः तथा केशाभरणं वा वर्त्तवस्तत्र वलनको-दवरकविशेषः एतानीव वृत्ते-वर्तुले अनुक्रमेण स्थूलस्थूले जो येषां ते तथा, तथा एण्यो-स्नायवः कुरुविन्दाःकुटिलकाः व्यक्ता वृक्षविशेषाः तद्वद्वृत्ता जङ्घा येषां ते इत्यपि व्याख्या। समुद्गकं-सपिधानं पेटाभं तद्वत् निसर्गतः-स्वभावतो मांसलत्वात् गूढं-गुप्तं अनुपलक्षिते जानुनी येषां ते तथा, वरवारणस्य-मत्तेभस्य तुल्यः-सदृशो विक्रमो-विशिष्टकमन्यासः-पादन्यासस्तेन विलासिता-विलासेन युक्ता मन्थरा गति-गमनं येषां ते तथा । वरतुरगस्येव सुजात:-सुनिष्पन्नः गुह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा, लघुगुप्तमेहना इत्यर्थः। आकीर्णो जात्यश्वस्तद्वत् निरुपलेपाः-पुरीपादिमलानाविलाः, प्रमुदितो-हृष्टो यो वरतुरगः सिंहश्च १ नलीयानी परइ इति भाषा २ धुंटण इति भाषा . ASHORRORIES545513456 ACCORROR ॥७८॥

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204