Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 171
________________ तणुकसिणनिद्ध-आदेज्जलडह सुकुमालमउयसुविभत्तरोमराजीओ, गंगावत्तगपदाहिणावत्ततरंगभंग-रविकिरणतरुणबोधित आकोसायंत- पउमगंभीरविगडनाभा, अणुब्भडपसत्थसुजातपीणकुच्छी, सन्नतपासा, सुजातपासा, संगतपासा, मियमायियपीणरतितपासा, अकरंडुयकणगरुयग-निम्मलसुजायनिरुवहयगायलट्ठी, कंचणकलसपमाणसमसहियलट्ठ - चुच्य आमेलगजमलजुगलवद्दिय-पओहराओ भुयंगअणुपुत्रवतणुयगोपुच्छवह-सम| लिभिर्विलसितं तनुकं - कृशं नमितं तं मध्यं - मध्यभागो यासां ताः, ऋजुकानां - अवक्राणां समानां - तुल्यानां [संहितानां अविरलानां ] जात्यानां स्वभावजानां तनूनां सूक्ष्माणां कृष्णानां - कालानां स्निग्धानां - कान्तानां आदेयानां श्लाध्यानां रम्याणां लडहडानां ललितानां सुकुमालानां - मृदूनां कोमलानां सुविभक्तानां यथास्थानशोभितानां रोगां राजिः पद्धतिर्यासां तास्तथा । गङ्गावर्तदक्षिणावर्त्ततरङ्गधद्भङ्गा यासां तास्तथा तादृश्यः ? पुनः कीदृश्यः ? रविकिरणैस्तरुणं नवीनं बोधितं विकाशीकृतं आकोशापितं [विमुकुलीभूतं ] अक्कुशलीभूतं यत् पद्मं तद्वत् गम्भीरा - विकटा नाभिर्यासां ताः । अनुद्भटावनुल्बणौ-अवटतुल्यौ प्रशस्तौ-सुजातौ पीनौ - उपचितौ कुक्षी यासां तास्तथा सन्नतपार्श्वाः, सुजातपार्श्वाः, संगतपार्श्वाः सर्वाणि विशेषणानि पूर्वव्याख्यातानि सामितौ अर्द्धनामितौ मात्राप्रमाणोपेतौ रतिदौ पीनौ पार्श्वे यासां ताः, अथवा साम्यं इतौ सामितौ अत एव मात्राप्रमाणोपेतौ अकरण्डकं - स्वभावतो निर्मलं धौतं यत् कनकं तस्य रुचक आभरणविशेषः, तद्वत् निर्मला - रजोरहिता सुजाता - सुनिम्मिता निरुपहता रोगादिभिरनुपहता काया शरीरस्य लष्टिः -गात्रविशेषा यासां ताः । काञ्चनस्य ये कलशा- कुम्भास्तद्वद् प्रमाणावृसत्वेनोन्नताः समाः तुल्यास्तेषु संहितं युक्तं लष्टं प्रधानं यत् चुचुकं स्तनबिटकं यस्मिन् तादृशं[तादृशौ] आमेलको स्तनशिखरे मेलकौ यमलयुगलौ युग्मजाताविव युगलौ वृत्तौ - वर्चुलौ वर्द्धितौ पयोधरौ स्तनौ यासां ২৮

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204