SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ तणुकसिणनिद्ध-आदेज्जलडह सुकुमालमउयसुविभत्तरोमराजीओ, गंगावत्तगपदाहिणावत्ततरंगभंग-रविकिरणतरुणबोधित आकोसायंत- पउमगंभीरविगडनाभा, अणुब्भडपसत्थसुजातपीणकुच्छी, सन्नतपासा, सुजातपासा, संगतपासा, मियमायियपीणरतितपासा, अकरंडुयकणगरुयग-निम्मलसुजायनिरुवहयगायलट्ठी, कंचणकलसपमाणसमसहियलट्ठ - चुच्य आमेलगजमलजुगलवद्दिय-पओहराओ भुयंगअणुपुत्रवतणुयगोपुच्छवह-सम| लिभिर्विलसितं तनुकं - कृशं नमितं तं मध्यं - मध्यभागो यासां ताः, ऋजुकानां - अवक्राणां समानां - तुल्यानां [संहितानां अविरलानां ] जात्यानां स्वभावजानां तनूनां सूक्ष्माणां कृष्णानां - कालानां स्निग्धानां - कान्तानां आदेयानां श्लाध्यानां रम्याणां लडहडानां ललितानां सुकुमालानां - मृदूनां कोमलानां सुविभक्तानां यथास्थानशोभितानां रोगां राजिः पद्धतिर्यासां तास्तथा । गङ्गावर्तदक्षिणावर्त्ततरङ्गधद्भङ्गा यासां तास्तथा तादृश्यः ? पुनः कीदृश्यः ? रविकिरणैस्तरुणं नवीनं बोधितं विकाशीकृतं आकोशापितं [विमुकुलीभूतं ] अक्कुशलीभूतं यत् पद्मं तद्वत् गम्भीरा - विकटा नाभिर्यासां ताः । अनुद्भटावनुल्बणौ-अवटतुल्यौ प्रशस्तौ-सुजातौ पीनौ - उपचितौ कुक्षी यासां तास्तथा सन्नतपार्श्वाः, सुजातपार्श्वाः, संगतपार्श्वाः सर्वाणि विशेषणानि पूर्वव्याख्यातानि सामितौ अर्द्धनामितौ मात्राप्रमाणोपेतौ रतिदौ पीनौ पार्श्वे यासां ताः, अथवा साम्यं इतौ सामितौ अत एव मात्राप्रमाणोपेतौ अकरण्डकं - स्वभावतो निर्मलं धौतं यत् कनकं तस्य रुचक आभरणविशेषः, तद्वत् निर्मला - रजोरहिता सुजाता - सुनिम्मिता निरुपहता रोगादिभिरनुपहता काया शरीरस्य लष्टिः -गात्रविशेषा यासां ताः । काञ्चनस्य ये कलशा- कुम्भास्तद्वद् प्रमाणावृसत्वेनोन्नताः समाः तुल्यास्तेषु संहितं युक्तं लष्टं प्रधानं यत् चुचुकं स्तनबिटकं यस्मिन् तादृशं[तादृशौ] आमेलको स्तनशिखरे मेलकौ यमलयुगलौ युग्मजाताविव युगलौ वृत्तौ - वर्चुलौ वर्द्धितौ पयोधरौ स्तनौ यासां ২৮
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy