Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 178
________________ प्रश्नव्याकरण ज्ञानवि० वृत्तिः अधर्मद्वारे सीता दृष्टान्तः सू-१६ ॥८६॥ किनिकरसमक्षं अयोध्यानगरीनिवासिदशरथनृपतिसुतेन रामदेवेन-पद्मापरनाम्ना बलदेवेन लक्ष्मणाभिधानवासुदेवज्येष्ठभ्रात्रा स्वप्रभावेनोपशान्ताऽधिष्ठातृदैवतं धनुः आरोपितगुणं कृत्वा प्राप्तसाधुवादेन महाबलेन परिणीता, अनुक्रमेण दशरथराज्ञि प्रव्रजिते [प्रवित्रजिषौ] रामाय राज्यदानार्थमभ्युत्थिते च भरताभिधानाऽनुजमात्रा कैकय्या विमात्राऽऽमन्त्र्य पूर्वप्रतिपन्नवरयाचनोपायेन राज्यं भरताय दत्तवच्या पितृवचनसत्यापनार्थ राज्ये भरतेऽङ्गीकुर्वति वनवासमुपाश्रितेन सलक्ष्मणेन रामेण सह वनवासमधिष्ठिता, ततश्च क्रमेण लक्ष्मणेन कौतुकेन दण्डकारण्यं गच्छता आकाशस्थं खड्गरत्नमादाय कौतुहलेनैव वंशजालीच्छेदकृते तन्मध्यवर्त्तिनं विद्यासाधनपरायणं रावणभागिनेयं खरदूषणचन्द्रनखासुतं शम्बुकाभिधानं विद्याधरं छेद्यमानं दृष्ट्वा च तं पश्चात्तापमुपगतेन लक्ष्मणेनाऽऽगत्य भ्रातुर्निवेदितेऽस्मिन् व्यतिकरे पश्चादेतद्वथतिकरदर्शनकुपितायां आगतायां चन्द्रनखायां तथा रामलक्ष्मणयोः रूपदर्शनात् सञ्जातकामायां तत्प्रार्थनापरायां तन्नि | राकृतायां अनिष्टायां च पुत्रमरणादिव्यतिकरे तया शोकरोषाभ्यां खरदूषणस्य निवेदनं कृतं, तेन वैरनिर्यातनोद्यतेन लक्ष्मणेन सह | युद्धमारब्धं, ज्ञातभागिनेयमरणादिव्यतिकरण लंकापुरीशेन आकाशेन आगच्छता रावणेन दृष्ट्वा च तामत्यन्तरूपवतीं सीतां कुसुमसायकासरावेशविधुरितान्तष्करणेन अगणितकुलमालिन्येन अपहस्तितविवेकरत्नेन मुक्तशीलादिधर्मसंज्ञेन त्यक्तपरलोकभयचिन्तनेन जातसीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञातमुक्तसिंहनादसंकेतकरणेन लक्ष्मणसंग्रामकरणस्थानके गत्वा मुक्त सिंहनादे च श्रुते च चिन्तामापन्ने तदभिमुखे रामे गते पश्चाद् मृगमायां विधाय दानमिपादेकाकिनी सीताऽपहृता, जटायुपक्षिणा सह युद्धं विधाय तत्पक्षौ छेदं कृत्वा, झगिति लङ्कायां नीता, विमुक्ता स्वगृहवाटिकायां, प्रार्थिता च दशकन्धरेगाऽनुकूलप्रतिकूलवाभिर्बहुशो न च तमिष्टवती, पश्चाद्रत्नजटीखेचरमुखादवगत्य हनुमता तत्स्थानक्षेमप्रवृत्ति निशम्य सुग्रीवभामण्डलहनुमदा देविद्याधरवृन्दसहायेन CALCOHOREGAOCAL ॥८६॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204