Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
ओहबला, अइबला, अनिहया, अपराजियसत्तुमद्दणरिपुसहस्समाणमहगा, साणुकोसा, अमच्छरी, अचवला, अचंडा, मितमंजुलपलावा, हसियगंभीर महुर भणिया, अब्भुवगयवच्छला, सरण्णा, लक्खणवंजणगुणोववेया, माणुम्माणपमाणप डिपुन्नसुजायसव्वंगसुंदरंगा, ससिसोमागारकंतपियदंसणा, अमरिसणा, पर्यडडडप्पयारकालस्य ऋतुपकरूपस्य ये गुणाः कार्याणि तैः क्रमेण परिपाट्या कामं अत्यर्थं सुखं तेन युक्तस्य, अर्द्ध भरतस्य भरतार्द्धस्य स्वामिकानाथाः । धीराणां वीराणां या कीर्त्तिस्तत्प्रधानाः पुरुषाः ओघेन - प्रवाहेण अच्छिन्नं अत्रुटितं बलं प्राणो येषां ते अतिशायिबलाः, पुरुषान्तर बलान्यतिक्रान्ताः, अनिहताः न केनाऽपि मारिताः, अतएव परैः शत्रुभिः न निर्जिताः तान् शत्रून् मर्दयन्ति ये ते तथा, रिपूणां सहस्रं तस्य मानो-दर्पः तं मर्दयन्ति ते रिषुसहस्रं तस्य मानमर्दनाः, सानुक्रोशाः आश्रितानां सदयाः अमत्सरिणः - परगुणग्राहिणः, | कायिकादिचापल्परहिता अचपलाः, अनिमित्तको परहिताः अचण्डा, परिमितः कार्योत्पन्ने तदपि मञ्जुलो - मधुरः प्रलापो - जल्पनं येषां ते, तेषां पाठान्तरे मधुरपरिपूर्णसत्यवचना इत्यर्थः । हसितं ईषत् स्मितं गम्भीरं अतुच्छं मधुरं आयतिशुभं भणितं येषां ते तथा, अङ्गीकृतं वात्सल्यं हितं यैस्ते तथा, शरणदायकत्वात् शरण्याः शरणागतवज्रपञ्जरविरुदधारकाः, लक्षणानि यथा -
1
अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सच्चे प्रतिष्ठितम् ॥१॥ तथा व्यञ्जनानि मषीतिलकादीनि तयोर्यो गुणस्तेनोपेता ये ते। मानमष्टोत्तरशताङ्गुलिविंशत्याधिकं वा, उन्मानं - जलद्रोगार्द्धमारतुलारोपितेन जलभृतकुंडिककोटितः प्रमाणोपेतः प्रतिपूर्णः इन्द्रियावयवादिभिः तेन सुजातं सुविभक्तं तैः सर्वाङ्गैः सुन्दराणि अङ्गानि
२ प्रत्यन्तरे मानं जलद्रोणप्रमाणता उन्मानं तूलारोपितस्यार्द्ध भारप्रमाणता

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204