Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नइकण्हबिन्न दीवे पंचसया तावसाण निवसति । पव्वदिवसेसु कुलवई पालेवुत्तार सक्कारे ॥ ५०३ ॥ जण सावगाण खिसण समियक्खण माइठाण लेवेण । सावय पयत्तकरणं अविणय लोए चलणधोए ॥५०४॥ पडिलाभिय वच्चंता निब्बुड नइकूल मिलण समियाओ । विम्हिय पंचसया तावसाण पव्वज्ज साहाय ॥५०५॥
व्याख्या-अचलपुरं नाम नगरं, तत्र प्रत्यासन्ने द्वे नद्यौ, तद्यथा-कृष्णा बेना च, तयोरपान्तराले ब्रह्मनामा द्वीपः, तत्र चैकोनपञ्चशततापसपरिवृतो देवशर्मनामा कुलपतिः परिवसति, स च सक्रान्त्यादिपर्वसु स्वतीर्थप्रभावनानिमित्तं सर्वैरपि तापसैः परिवृतः पादलेपेन कृष्णा नदीमुत्तीर्याचलपुरमागच्छति, लोकश्च तथारूपं तस्यातिशयमवलोक्य विस्मितचेताः सविशेष भोजनादिसत्कारमाचरति, श्रावकजनांश्च कुत्सयते-यथा न युष्मद्गुरूणामेतादृशी शक्तिरस्तीति, ततः श्रावकैः समिताभिधसूरीणामाख्यायि, तैश्च स्वचेतसि परिभाव्योक्तं-मातृस्थानत एष पादलेपेन नदीमुत्तरति, न तपःशक्तिप्रभावतः, ततः श्रावकैस्तस्य मातृस्थानप्रकटनार्थ सपरिवारो भोजनार्थ निमन्त्रितः कुलपतिः, ततः समाजगाम भोजनवेलायां गृहे, प्रारब्धं तस्य श्रावकैः पादप्रक्षालनं कर्तुं, स च न ददाति, मा पादलेपः पादयोरपयासीदितिकृत्वा, ततः श्रावकैरुक्तं-माऽस्माकमप्रक्षालितपादान् युष्मान् भोजयतामविनय इति बलादपि प्रक्षालितौ पादौ, ततो भोजनानन्तरं निजस्थानगमनाय प्रचलितः, श्रावका अपि सकल जनानाहूयानुव्रजनबुद्धया तेन सह चलितुं । प्रवृत्ताः, ततः सपरिवारः कुलपतिः कृष्णा नदीमुत्तरितुं प्रावत, पादलेपाभावे च निमक्तुं लमः, ततो जाता जने तस्यापभ्राजना. अत्रान्तरे च तस्यावबोधाय समितसूरयस्तत्राजग्मुः, तैः सकलजनसमक्षं नदी प्रत्युक्तं-हे कृष्णे! परं पारं वयं गन्तुमिच्छामः, ततो वे
मत्ताः, ततः सपरिवारः कुलपानानन्तरं निजस्थानगमनाय चालतमाऽस्माकममक्षालितपादान याका पादमक्षालनं कर्तुं, सच
dain Education International
For Personal &Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366