Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
भोगपरित्यागेन सदैवात्मशरीरं यापनीय, कदाचिदेव चं शरीरस्याटवे संयमयोगदिनिमित्तं बलाधानाय विकृतिपरिभोगः, तथा |चोक्तं सत्रे-अभिक्खणं निविगई गया य' इति, विकृतिपरिभोगे च तक्रायेवोपयोगीति तक्रादिग्रहणं, 'कट्टरादिषु' घृतवटिकोमिश्रतीमनादिषु ग्रहणं भाज्यं-विकल्पनीयं, ग्लानत्वादिप्रयोजनोत्पत्तौ कार्य, न शेषकालमिति भावः, तेषां बहुलेपत्वात् गृद्धयादिजनकत्वाच्च । अथ किं तत्त्रिकम् , इत्यत आह
आहार उवहि सेज्जा तिण्णिवि उण्हा गिहीण सीएऽवि । तेण उ जीरइ तेसि दुहओ उसिणेण आहारो ॥ ६२१॥ ___ व्याख्या-आहार उपधिः शय्या एतानि त्रीण्यपि गृहिणां शीतेऽपि शीतकालेऽप्युष्णानि भवन्ति, तेन तेषां तक्रादिग्रहणमन्तरेणापि 'दुहओ'त्ति उभयतो बाह्यतोऽभ्यन्तरतश्च 'उष्णेन' तापेनाहारो जीयते, तत्राभ्यन्तरो भोजनवशात् , बाह्यः शय्योपधिवशात् ।। एयाई चिय तिन्निवि जईण सीयाई होति गिम्हेवि । तेणुवहम्मइ अग्गी तओ य दोसा अजीराई॥ ६२२ ॥
व्याख्या-एतान्येवाहारोपधिशय्यारूपाणि त्रीणि यतीनां 'ग्रीष्मेऽपि ' ग्रीष्मकालेऽपि शीतानि भवन्ति, तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुषु गृहेषु स्तोकस्तोकलाभेन बृहद्वैलालगनात्, उपघिरैकमेव वारं वर्षमध्ये वर्षाकालादाक् प्रक्षालनेन मलिनत्वात् शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन, तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते 'अग्निः' जाठरो बहिः, तस्माचाग्न्युपघातादोषाः 'अजीर्णादयः' अजीर्णबुभुक्षामान्यादयो जायन्ते, ततस्तकादिग्रहणं साधूनामनुज्ञातं, तक्रादिनापि हि | जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वभावत्वात् । सम्पत्यलेपानि द्रव्याणि प्रदर्शयति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366