Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 343
________________ शेष वा, एतेषां सावशेष द्रव्य मष्टो हस्तः संसष्टमा मात्र निरवशेष यान समेषुः संसद्धेयर हत्थो मत्तो विय दव्व सावसेसियरं । एएसु अट्ठ भंगा नियमा गहणं तु ओएसु ॥ ६२६॥ ____ व्याख्या-दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति, मात्रकमपि च येन कृत्वा भिक्षां ददाति तदपि मात्र संसृष्टमसंसृष्टं वा, द्रव्यमपि सावशेष निरवशेषं वा, एतेषां च त्रयाणां पदान्मं संसृष्टहस्तसंसृष्टमात्रसावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं संयोगतोऽष्टौ । भना भवन्ति, ते चामी-संसृष्टो हस्तः संसृष्टं मात्र सावशेषं द्रव्यं १, संसृष्टो हस्त: संसृष्टं मात्र निरवशेषं द्रव्यं २, संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ३, संसृष्टो हस्तोऽसंसृष्टं मात्र निरवशेषं द्रव्यं ४, असंसृष्टो हस्तः संसृष्टं मात्रं सावशेष द्रव्यं ५, असंसृष्टो हस्तः संसृष्ट मात्रं निरवशेष द्रव्यं ६, असंसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष द्रव्यं ७, असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेष द्रव्यं ८, एतेषु चाष्टमु भङ्गेषु मध्ये 'नियमात् ' निश्चयेन 'ओजस्सु' विषमेषु भङ्गेषु प्रथमतृतीयपञ्चमसप्तमेषु 'ग्रहणम् ' आदानं कर्त्तव्यं, न समेषु-द्वितीयचतुर्थषष्टाष्टमरूपेषु, इयं चात्र भावना-इह हस्तो मात्र वा द्वे वा स्खयोगेन संसृष्टे वा भवतोऽसंसृष्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तहि ?-द्रव्यवशेन, तथाहि-यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थ खरण्टिते अपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात् , यत्र तु निरवशेष द्रव्यं तत्र साधुदानानन्तरं नियमतस्तव्याधारस्थाली इस्तं मात्र वा प्रक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात्कल्पते इति । उक्तं लिप्तद्वारम्, अथ छर्दितद्वारमाह सच्चित्ते अच्चित्ते मीसग तह छड्डणे य चउभंगो । चउभंगे पडिसेहो गहणे आणाइणो दोसा ॥ ६२७ । व्याख्या-छर्दितमुज्झितं त्यक्तमिति पर्यायाः, तश्च त्रिधा, तद्यथा-सचित्तमचित्तं मित्रं च, तदपि च कदाचिच्छीते 'सचित्ते' Jain Education in For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366