Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
घासेसणा उ भावे होइ पसत्था तहेव अपसत्था । अपसत्था पंचविहा तस्विवरीया पसत्या उ ॥ ६३५ ॥
व्याख्या-'भावे' भावविषया ग्रासैषणा द्विविधा, तद्यथा-प्रशस्ताऽप्रशस्ता च, तत्राप्रशस्ता पश्चविधा संयोजनातिबहुकाङ्गारधूमनिष्कारणरूपा, तद्विपरीता संयोजनादिदोषरहिता प्रशस्ता । सम्प्रति संयोजनामेव व्याचिख्यामुः प्रथमतस्तस्या निक्षेपमाह
दव्वे भावे संजोअणा उ दव्वे दुहा उ बहिअंतो । भिक्खं चिय हिंडतो संजोयंतमि बाहिरिया ॥ ६३६ ॥
व्याख्या-संयोजना द्विधा, तद्यथा-'द्रव्ये' द्रव्यविषया 'भावे' भावविषया, तत्र 'द्रव्ये' द्रव्यविषया संयोजना द्विविधा, तद्यथा-बहिरन्तश्च, तत्र यदा भिक्षार्थमेव हिण्डमानः सन् क्षीरादिकं खण्डादिभिः सह रसगृद्धया रसविशेषोत्पादनाय संयोजयति एपा 'बाह्या' बहिर्भवा संयोजना । एनामेव स्पष्टं भावयति___ खीरदहिसवकट्टरलंभे गुडसप्पिवडगवालुंके । अंतो उ तिहा पाए लंबण वयणे विभासा उ ॥ ६३७ ॥ ___व्याख्या-क्षीरदधिसूपानां' प्रतीतानां कट्टरस्य-तीमनोन्मिश्रघृतवटिकारूपस्य देशविशेषप्रसिद्धस्य लाभे सति तथा गुडसपिर्वटकवालुङ्गानां च प्राप्तौ सत्यां रसगृद्धया रसविशेषोत्पादनायानुकूलद्रव्यैः सह संयोजनां यत्करोति बहिरेव भिक्षामटन् एपा बाह्या द्रव्यसंयोजना । अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति, तथा चाह-' अन्तस्तु' अभ्यन्तरा पुनः संयोजना 'त्रिधा' त्रिप्रकारा, तद्यथा-पात्रे लम्बने वदने च, नवरं 'लम्बनं ' कवलः, ततोऽस्यास्त्रिविधाया अपि 'विभाषा' व्याख्या कर्त्तव्या, सा चैवं-1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366