Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
व्याख्या-इह किल सर्वमुदरं षभिभोगेर्विभज्यते, तत्र चा? भागत्रयरूपमशनस्य सव्यञ्जनस्य-तक्रशाकादिसहितस्याधार कुर्यात् , तथा द्वौ भागौ द्रवस्य पानीयस्य, षष्ठं तु भागं वायुप्रविचारणार्थमूनं कुर्यात् । इह कालापेक्षया तथा तथाऽऽहारस्य प्रमाणं । भवति, कालश्च त्रिधा, तथा चाहसिओ उसिणो साहारणो य कालो तिहा मुणेयव्यो । साहारणंमि काले तत्थाहारे इमा मत्ता ॥ ६५१ ॥
व्याख्या-त्रिधा कालो ज्ञातव्यः, तद्यथा-शीत उष्णः साधारणश्च, तत्र तेषु कालेषु मध्ये साधारणे काले 'आहारे' आहारविषया 'इयम्' अनन्तरोक्ता 'मात्रा' प्रमाणं
सीए दवस्स एगो भत्ते चत्तारि अहव दो पाणे । उसिणे दवरस दोन्नि उ तिन्नि व सेसा उ भत्तस्स ॥६५२॥ ___ व्याख्या 'शीते ' अतिशयेन शीतकाले 'द्रवस्य ' पानीयस्यैको भागः कल्पनीयः, चत्वारः 'भक्त' भक्तस्य, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य कल्पनीयौ त्रयस्तु भागा भक्तस्य, वाशब्दो मध्यमशीतकालसंसूचनार्थः, तथा 'उष्णे ' मध्यमोष्णकाले द्वौ भागौ 'द्रवस्य' पानीयस्य कल्पनीयौ, शेषास्तु त्रयो भागा भक्तस्य, अत्युष्णे च काले त्रयो भागा द्रवस्य शेषौ द्वौ भागौ भक्तस्य, वाशब्दोऽत्रात्युष्णकालसंसूचनार्थः, सर्वत्र च षष्ठो भागो वायुप्रविचारणार्थ मुत्कलो मोक्तव्यः । सम्पति भागानां स्थिरचरविभागप्रदर्शनार्थमाह
एगो दवरस भागो अवहितो भोयणरस दो भागा । वडुति व हायंति व दो दो भागा उ एकेके ॥ ६५३ ॥
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366