Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनिर्यु - केर्मलयगि रीयावृत्तिः
॥ १७८ ॥
समणत्तणस्स सारो भिक्खायरिया जिणेहिं पन्नत्ता । एत्थ परितप्यमाणं तं जाणसु मंदसंवेगं ॥ २ ॥ नाणचरणस्स मूलं भिक्खायरिया जिणेहिं पन्नत्ता । एत्थ उ उज्जममाणं तं जाणसु तिव्वसंवेगं || ३ || पिंड असोहयंतो अचरित्ती एत्थ संसओ नत्थि । चारितमि असंते निरत्थिया होइ दिक्खा उ ॥ ४ ॥ चारितमि असंतंमि, निव्वाणं न उ गच्छइ । निव्वाणमि असंतंमि, सव्वा दिक्खा निरत्थगा ।। ५ ।। तस्मादुद्गमादिदोषपरिशुद्धः पिण्ड एषयितव्य इति ।
सो आहारविही जह भणिओ सव्वभावदसीहिं । धम्मावस्सगजोगा जेण न हायंति तं कुज्जा ॥ ६७० ॥
व्याख्या - एषः 'आहारविधिः' पिण्डविधिः 'यथा' येन प्रकारेण भणितस्तीर्थकरादिभिस्तथा कालानुरूपस्वमतिविभवेन मया व्याख्यात इति वाक्यशेषः । पश्चाद्धेनापवादमाह - ' धम्र्मेत्यादि ' धर्मावश्यकयोगाः श्रुतधर्मचारित्रधर्मप्रतिक्रमणादिव्यापारा येन 'न हीयन्ते ' न हानिं व्रजन्ति तत्कुर्यात्, तथा तथाऽपवादं सेवेतेति भावः । साधुना हि यथायथमुत्सर्गापवादस्थितेन भवितव्यं । या चापवादमासेवमानस्याशठस्य विराधना साऽपि निर्जराफला, तथा चाह
जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥ ६७१ ॥ व्याख्या - यतमानस्य ' सूत्रोक्तविधिसमग्रस्य ' सूत्रोक्तविधिपरिपालनपूर्णस्य अध्यात्मविशोधियुक्तस्य, रागद्वेषाभ्यां रहितस्येति भावः, या भवेत् 'विराधना' अपवादप्रत्यया सा भवति निजरा फला, इयमत्र भावना - कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽप| वादमासेवमानस्य या विराधना सा सिद्धिफला भवतीति । तदेवं निक्षिप्तं पिण्डपदमेषणापदं च तन्निक्षेपकरणाच्चाभिहितो नाम निक्षेपः, तदभिधानाचाभवत्परिपूर्णा पिण्डनिर्युक्तिरिति ।
Jain Education International
For Personal & Private Use Only
यतनाया
निर्जरा
॥ १७८॥
www.jainelibrary.org

Page Navigation
1 ... 360 361 362 363 364 365 366