Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 356
________________ पिण्डनियुकेर्मलयगिरीयावृत्तिः ॥१७॥ व्याख्या-एको द्रवस्य भागोऽवस्थितो द्वौ भागौ भोजनस्य, शेषौ तौ द्वौ द्वौ भागौ एकैस्मिन् , भक्ते पाने चेत्यर्थः, ग्रासैषणावते वा हीयेते वा, वृद्धिं वा व्रजतो हानि वा व्रजत इत्यर्थः, तथाहि-अतिशीतकाले द्वौ भागौ भोजनस्य वर्द्धते अत्युष्णकाले च । यां प्रमापानीयस्य अत्युष्णकाले च द्वौ भागौ भोजनस्य हीयेते अतिशीतकाले च पानीयस्य । एतदेव स्पष्टं भावयति णदोषः एत्थ उ तइयचउत्था दोण्णि य अणवट्ठिया भवे भागा। पंचमछट्ठो पढमो बिइओऽवि अवट्ठिया भागा॥६५४॥ व्याख्या-आहारविषयौ तृतीयचतुर्थों भागावनवस्थितो, तो ह्यतिशीतकाले भवतोऽप्युष्णकाले च न भवतः, तथा य: पानविषयः पञ्चमो भागो यश्च वायुप्रविचारणार्थ षष्ठो भागः यौ च प्रथमद्वितीयावाहारविषयौ एते सर्वेऽपि भागा अवस्थिताः, न कदाचिदपि| न भवन्तीति भावः । तदेवमुक्तं प्रमाणद्वारम् , अथ साङ्गारसधूमद्वारमाह तं होइ सइंगालं जं आहारेइ मुच्छिओ संतो। तं पुण होइ सधूमं जं आहारेइ निंदतो ॥ ६५५ ॥ | व्याख्या-तद्भवति भोजनं साकारं यत्तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्छः सन्नहो ! मिष्टं अहो ! सुसम्भृतं अहो ! स्निग्धं सुपकं सुरसमित्येवं प्रशंसन्नाहारयति, तत्पुनर्भवति भोजनं सधूमं यत्तद्गतविरूपरसगन्धास्वादतो जाततद्विषयव्यलीक-| चित्तः सन् अहो ! विरूपं कथितमपकमसंस्कृतमलवणं चेति निन्दनाहारयति, अयं चात्र भावार्थ:-इह द्विविधा अङ्गाराः, तद्यथाद्रव्यतो भावतश्च, तत्र द्रव्यतः कृशानुदग्धाः खदिरादिवनस्पतिविशेषाः, भावतो रागाग्निना निर्दग्यं चरणेन्धनं । धूमोऽपि द्विधा, तद्यथा-द्रव्यतो भावतश्च, तत्र द्रव्यतो योऽर्द्धदग्धानां काष्ठानां सम्बन्धी, भावतो द्वेषाग्निना दह्यमानस्य चरणेन्धनस्य सम्बन्धी कलुषभावो निन्दात्मकः, ततः सहाङ्गारेण यद्वर्त्तते तत्साङ्गारं, धूमेन सह वर्तते यत्तत्सधूमं । सम्पत्यङ्गारधूमयोलक्षणमाह Jain Educationalatonal For Personal & Private Use Only imww.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366