Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनियु
तर्मलयगि
चयति जालं तावद्येनैव पथा प्रविष्टस्तेनैव ततो जालाद्विनिर्गतः, जालेनेति तृतीया पश्चम्यर्थे द्रष्टव्या, तथा सकृद्-एकवारं मात्स्यिकेनग्रासैषणायां
इदजलमन्यत्र सञ्चार्य तस्मिन् हूदे छिन्नोदके बहुभिर्मत्स्यैः सहाहं गृहीतः, स च सर्वानपि तान् मत्स्यानेकत्र पिण्डीकृत्य तीक्ष्णायः- द्रव्यदणायां रीयावृत्तिः
शलाकायां प्रोतयति, ततोऽहं दक्षतया यथा स मात्स्यिको न पश्यति तथा स्वयमेव तामयःशलाकां वदनेन लगित्वा स्थितः, स च] मत्स्य ह॥१७॥
मात्स्यिकस्तान् मत्स्यान् कर्दमलिप्तान् प्रक्षालयितुं सरसि जगाम, तेषु च प्रक्षाल्यमानेष्वन्तरमवज्ञाय झटित्येव जलमध्ये निमनवान् । ___एयारिसं ममं सत्तं, सढं घट्टियघट्टणं । इच्छसि गलेण घेत्तुं, अहो ते अहिरीयया ॥ ६३३ ॥
व्याख्या-एतादृशं पूर्वोक्तस्वरूपं मम सत्त्वं 'शठं' कुटिलं घट्टितस्य-धीवरादिकृतस्योपायस्य घट्टनं-चालक, ततस्त्वमिच्छसि। मां गलेन ग्रहीतुमित्यहो ! ते तव 'अहीकता' निर्लज्जतेति । तदेवमुक्तो द्रव्यग्रासैषणाया दृष्टान्तः, सम्पति भावग्रासैषणायामुपनयः क्रियते-मत्स्यस्थानीयः साधुर्मासस्थानीयं भक्तपानीयं मात्स्यिकस्थानीयो रागादिदोषगणः, यथा न छलितो मत्स्य उपायशतेन तथा
साधुरपि भक्तादिकमभ्यवहरन्नात्मानमनुशास्तिप्रदानेन रक्षयेत् । तामेवानुशास्ति प्रदर्शयतिall बायालीसेसणसंकडंमि गहणंमि जीव ! न हु छलिओ। इण्हि जह न छलिज्जसि भुंजतो रागदोसेहिं ॥६३४॥
व्याख्या-इषणाग्रहणेन एषणागता दोषा अभिधीयन्ते, ततोऽयमर्थः-द्विचत्वारिंशतसङ्कया ये एषणादोषा गवेषणाग्रहणैषणादोषास्तैः 'सङ्कटे' विषमे 'ग्रहणे' भक्तपानादीनामादाने हे जीव! त्वं नैव छलितः, तत इदानी सम्पति भुञ्जानो रागद्वेषाभ्यां यथा न छल्यसे तथा कर्त्तव्यं । सम्पति तामेव भावग्रासैषणां प्रतिपादयति
H॥१७॥
Jain Education intentonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366