Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 351
________________ कर्मणा च संयोजयति भवं' दीर्घतरं संसारं, तस्माच भवादीर्घतरसंसाररूपात् 'दुःखम् ' असातं संयोजयति, ततो यो द्रव्यसंयोजनां ||करोति तस्येत्थमनन्तकालसंवेद्यो दुःखनिपात इति । सम्प्रत्यस्या एव द्रव्यसंयोजनाया अपवादमाह पत्ते य पउरलंभे भुत्तुव्वरिए य सेसगमणट्ठा । दिट्ठो संजोगो खलु अह कम्मो (कमो) तस्सिमो होइ ॥६४०॥ व्याख्या-'प्रत्येकम् । एकैकं साधुसङ्काटकं प्रति 'प्रचुरलाभे' विपुलघृतादिप्राप्तौ सत्यां यदि कथमपि भुक्ते सति 'च' समुचये शेष-उद्धरितं भवति, ततस्तस्य शेषस्य निर्गमनार्थ दृष्टः-अनुज्ञातस्तीर्थकरादिभिः खलु संयोगः, उद्धरितं हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तं शक्यते, प्रायस्तृप्तत्वात, न च परिष्ठापनं युक्तं, घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि कीटिकादिसत्त्वव्याघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात्, तत उद्धरितघृतादिनिर्गमनार्थ खण्डादिभिरपि तस्य संयोजनं न दोपायएष तावदयमपवादः संयोजनायाः । अथान्योऽपि तस्य संयोगस्यायं-वक्ष्यमाणः क्रमो भवन परिपाटीरूपो भवति ॥ तमेवाह रसहेउं पडिसिडो संयोगो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो य॥ ६४१॥ व्याख्या-रसहेतोः' गृया रसविशेषोत्पादनाय संयोगः प्रतिषिद्धस्तीर्थकरादिभिः, यावता पुनः स एव संयोगो 'ग्लानार्थ ग्लानसज्जीकरणार्थ कल्पते, यद्वा यस्य ' अभक्तच्छन्दः' भक्तारोचकः, यश्च मुखोचितो-राजपुत्रादिः यश्चाद्याप्यभावितः-असञ्जातसम्यक्परिणामः शैक्षकस्तस्य निमित्तं कल्पते । उक्तं संयोजनाद्वारम्, अथाहारममाणद्वारमाह- . बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥६४२॥ 9999999999999999999999中专9999999999 dain Education Internate For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366