Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 352
________________ पिण्डनियु तेर्मळयगिरीयावृत्तिः ग्रासैषणायां प्रमाणदोषः ॥१७॥ व्याख्या-पुरुषस्य कुक्षिपूरक आहारो मध्यप्रमाणो द्वात्रिंशत्कवला: 'किले 'त्याहारस्य मध्यप्रमाणतासंसूचकः, महेलायाः कुक्षिपूरक आहारो मध्यमप्रमाणोऽष्टाविंशतिः कवलाः, नपुंसकस्य चतुर्विंशतिः, स चात्र न गृहीतो, नपुंसकस्य प्रायः प्रवज्यानईत्वात् , कवलानां प्रमाणं कुक्कुट्यण्डं, कुक्कुटी च द्विधा-द्रव्यकुक्कुटी भावकुक्कुटी च, द्रव्यकुक्कुट्यपि द्विधा-उदरकुक्कुटी गलकुक्कुटी च, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यून नाघ्याध्मातं भवति स आहार उदरकुक्कुटी, उदरपूरक आहारः कुक्कुटीव वा उदरकुक्कुटीति मध्यपदलोपिसमासाश्रयणात् , तस्य द्वात्रिंशत्तमो भागोऽण्डक, तत्प्रमाणं कवलस्य, तथा गला कुक्कुटीव गलकुक्कुटी, गल एव कुक्कुटीत्यर्थः, तस्यान्तरालमण्डकं, किमुक्तं भवति ?-अविकृतास्यस्य पुंसो गलान्तराले यः कवलोऽविलनः प्रविशति ताव-1 त्यमाणं [ कवलस्य, ] कवलमश्नीयात् अथवा शरीरमेव कुक्कुटी तन्मुखमण्डकं, तत्राक्षिकपोलभ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति तत्पमाणम् । अथवा कुक्कुटी-पक्षिणी तस्या अण्डकं प्रमाणं कवलस्य, भावकुक्कुटी येनाहारेण भुक्तेन न न्यून नाप्यत्याध्मातमदरं भवति धृतिं च समुदहति ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते तावत्प्रमाण आहारो भावकुक्कुटी, अत्र भावस्य प्राधान्यविवक्षणादेष प्राक् द्रव्यकुक्कुट्यप्युक्त इह भावकुक्कुटयुक्तः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं, तत्पमाणं कवलस्य । एत्तो किणाइ हीणं अद्धं अद्वद्धगं च आहारं । साहुस्स बिति धीरा जायामायं च ओमं च ॥ ६४३ ॥ व्याख्या-'एतस्मात् ' द्वात्रिंशत्कवलप्रमाणाहारात् 'किणाइ' इति किञ्चिन्मात्रया एकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा कवलैः साधोहीन हीनतरं यावदर्द्धम् अर्द्धस्याप्यर्द्धमाहारं यात्रामात्राहारं धीराः-तीर्थदादयो त्रुवते, न्यूनं च । एष यात्रापात्राहार एष एव चावमाहार इति भावः । तदेवमुक्तमाहारप्रमाणं, सम्पति प्रमाणदोषानाह ॥१७३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366